SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥६४॥ तदेवोत्तरमाख्यत॥ ७८९॥ मन्त्री प्राहाऽऽकृतावस्यां, राक्षसी कर्म किं भवेत् ? । ततो विचार्य कर्तव्यं, स्वामिना यद्यथोचितम्॥७९०॥ पृष्टश्च वपचो राज्ञा, प्राहाऽयं मम कर्मकृत् । इति निश्चित्य राजाऽमुं, रासभानयने-ब्रवीत्॥७९१॥ तेनाऽप्युक्तो हरिश्चन्द्रस्तत्र रासभमानयत् । शक्तोऽपीष्टोऽपि किं कुर्यान्नरः परवशः खलु ? ॥ ७९२ ॥ विचार्य कार्यमाचर्यमिति मन्त्रि-शुकादिभिः । वार्यमाणोऽपि तां राजा, खरमारोपयद् द्रुतम् ॥ ७९३ ॥ अहो! अक्षत्रमक्षत्रमित्याक्रन्दन् शुकोऽब्रवीत् । राजन् ! विज्ञापनामेकां, शृणु नीत्यनुयायिनीम् ॥ ७९४ ॥ राज्ञोचे ब्रूहि रे! स्वैरं, कीरः प्रोवाच यद्यसौ । सुतारा राक्षसी स्यात् तद्, विशाम्यग्नि पुरस्तव ॥ ७९५॥ सदैन्यं प्राह सर्वोऽपि, सभालोकः शुकस्य गीः। अस्तु प्रमाणमामेति, राज्ञाऽप्यूचेऽनुरोधतः ॥ ७९६ ॥ सोत्साहं प्राह कीरोऽपि, मन्त्रिन् ! कारय तच्चिताम् । तथा तेन कृते कीरः, स्नात्वाऽगच्छच्चितां प्रति ॥ ७९७ ॥ ततो दिग्नायकानाह, योषा राक्षसान्वया। भवेद् नृपसुता तन्मां, प्रदहत्वाशु हव्यवाट् ॥ ७९८ ॥ इत्युक्त्वा पश्यतामेव, तेषां गतभयः शुकः । झम्पामदाच्च विध्यातोऽग्निश्चास्थादक्षतः शुकः ॥ ७९९ ॥ आश्चर्यमिदमाश्चर्यमित्यूचाना जनाः स्फुटम् । सतीयं राक्षसी न स्यादित्यदुः शुद्धितालिकाम् ॥ ८००॥ मन्त्र्यूचे नाथ! मन्येऽहं, मान्त्रिकस्य विजृम्भितम् । तत् केनाऽप्यपदेशेन, मान्त्रिकोऽयं विसृज्यताम् ॥ ८०१॥ तमां रासभादाशु, समुत्तारय सम्प्रति । इत्युक्ती ॥६४॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy