________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥६॥
॥७७६ ॥ मुनिभ्यः पृथिवी दत्ता, विक्रीता ससुता प्रिया। यत् करिष्यति दैवं तद्, हरिश्चन्द्रः सहिष्यते ॥७७७॥ दृष्ट्वा तां बाह्यनेपथ्यैरदूषितवपुलताम् । मन्त्रिणे पृथिवीनाथः, स्ववितकै न्यवेदयत् ॥ ७७८ ॥ चन्द्रकान्तं मुखं यस्याः, सुवर्ण वपुरेव हि । पद्यरागी करावेव, किमस्या मण्डनान्तरैः ? ॥ ७७९ ॥ उपलक्ष्य शुकोऽचैनां, ननाम नतमस्तकः । उशीनरसुते ! देवि!, सुतारे ! स्वस्ति ते सति !॥ ७८०॥ राज्ञोचे किं मुहुः कीर!, प्रजल्पस्येवमुच्चकैः। क्वसाऽत्रोशीनरसुता, किं त्वं कीरोऽसि मद्यपः? ॥७८१ ॥सावष्टम्भं शुकः प्राह, हरिश्चन्द्रनृपो ह्ययम् । अस्य पत्नीयमित्यर्थोऽन्यथा स्यात् प्रलयेऽपिन॥ ७८२॥ राजा पृष्टो हरिबूते, हरिश्चन्द्रो नृपोऽस्मि न । किन्त्वहं श्वपचस्याऽस्य, द्रव्यक्रीतोऽस्मि कर्मकृत् ॥७८३॥ राजा पृष्टाऽङ्गना प्राह, न सुताराऽस्मि राज्यहम्। किन्तु द्विजन्मनो वज्रहृदयाख्यस्य दासिका॥७८४ ॥ अरे ! विप्लावयस्यस्मानित्युक्ते भूभुजा शुकः । प्राह किं स्वं हरिश्चन्द्रः, प्रकाशयति ते पुरः ? ॥ ७८५॥ यतः-सतो वाऽप्यसतो वाऽपि, स्वान् स्वयं कीर्तयन् गुणान् । ब्रह्माऽपि हास्यतां याति, किं पुनः प्राकृतो जनः?॥७८६ ॥ हरि प्रत्याह राजा भोः!, मा भैषीः सत्यमुच्यताम् । ननु यद्यप्यहं वैरी, त्राताऽऽपदि तथाऽपि ते ॥ ७८७ ॥ हरिश्चन्द्रोऽब्रवीद् देव !, वचसा पक्षिणोऽस्य किम् । पुनरायस्यसे स्वं यद्, दासोऽस्याऽस्मीत्यवोचत ॥ ७८८ ॥ रूप-लावण्य-धैर्यादिगुणविस्मितचेतसा । राज्ञा पृष्टा पुनारी,
॥६३॥