________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥६॥
कलहंसं तमाहातुमादिक्षत् सचिवस्ततः॥७६४॥ कलहंसोऽपि तत्रैव, विमुच्य शुकपञ्जरम्। जगामाऽथ नृपोऽवादीद, मन्त्रिन् ! किं न्वस्ति पञ्जरे ?॥७६५॥ मन्त्रिणोचे महाराज!, शुकराजोऽस्ति सर्ववित् । उपश्लोकय राजानमित्युक्तश्च शुकोऽपठत् ॥ ७६६ ॥ सद्धर्म! जय काशीन्द्र !, यस्याऽऽकृष्टा गुणै शम् ।नयन्ति मार्गणा लक्ष्मीमेकेऽन्ये त्वानयन्ति ताम् ॥ ७६७ ॥ राज्ञा किं पठितोऽसीति, पृष्टोऽसावाख्यदात्मनः । तर्क-लक्षण-साहित्य-गणित-स्मृतिकौशलम् ॥ ७६८॥ मान्त्रिकः प्राह भो राजन् !, राक्षसी वोऽन्यचेतसाम् । प्रभविष्यति तत् कोऽयं, विलम्बोऽस्या विनिग्रहे ? ॥ ७६९ ॥ ततश्चागात् स चण्डालो, हरिश्चन्द्रसमन्वितः। हरिश्चन्द्र-शुको दृष्ट्वा भूदुत्फुल्लाक्षमानसः॥ ७७० ॥प्राह च स्वस्ति ते नाथ!, भरतान्वयभूपते!। हरिश्चन्द्र! नमभूपमौलिरत्नाङ्कितक्रम!॥७७१॥ सरोषं प्राह राजाऽपि, किमबद्धं प्रभाषसे ? । क्व साकेतपतित्र, कीर! त्वं विह्वलोऽसि किम् ? ॥ ७७२॥ अथाह श्वपचं मन्त्री, कुर्वनाच्छादनामिमाम् । तेनाऽपि हरिरादिष्टस्तां कृत्वाऽनवगुण्ठनाम् ॥ ७७३ ॥ प्रत्यभ्यज्ञासीत् किं नाम, सुतारा देव्यसौ हहा! ? किमेतेन हि दैवेन, हन्तम्या वयमेव हा! ? ॥ ७७४ ॥ नास्मिन् कर्मणि देव्येषा, करणं स्यात् कथञ्चन। किन्तु मे कोऽपि दुष्कर्मप्रेरितः कुरुते बदः॥७७५॥ प्रविश्याऽग्नि ततो देव्या, दोषमुत्सारयाम्यहम् । अथवाऽरिसभायां मे, नाऽऽत्मा योग्य: प्रकाशितुम् ।
દશા