________________
श्रीजैन
कथाचतुष्टयी।
कथासंग्रहः
॥६॥
समायान्तं, मन्त्रिणं कोऽपि पूरुषः । अन्तरा मिलितोऽनंसीत्, कीरपञ्जरपाणिकः ॥ ७३९॥ कलहंस! त्वया कीरो, लब्बोऽयं स्वेति मन्त्रिणा । पृष्टे स प्राह चम्पाया बने देवैनमाप्नुवम् ? ॥ ७४० ॥ चन्द्रशेखरभूपाय, सदाप्रियविपश्चिते। सर्वशास्त्रानदीष्णत्वादिहाऽऽनपंशुकोत्तमम् ॥ ७४१॥ इति तद्वचनं मृण्वंस्तेनैव सह मन्त्रिराट् । ययावुपनृपं नत्वा, यथास्थानमुपाविशत् ।। ७४२ ॥ सखेदं प्राह भूपालो, मन्त्रि ! पश्य पुरीजनः । सहोचितायुर्दैवेन, याति वातेन दीपवत् ।। ७४३॥ न वयं दुर्नया नाऽपि, प्लवधर्मः पुरीजनः । नृणामकालमृत्युश्च, तदन्वेषय कारणम् ॥ ४॥ ततश्च कुट्टिनी काचित्, पुत्रीमरणविला । उरस्ताडं समागत्य, साक्षेपं नृपमब्रवीत् ॥ ७४५ ॥ सदैवाऽन्यायकारी त्वं, सदा पीडयसि प्रजाः । सदाऽपि पापनिष्ठोऽसि, तेनाऽयं म्रियते जनः ॥ ७४६॥ मत्पुत्री नामतोऽनङ्गसुन्दरी स्मरमञ्जरी। प्रक्रीडा सुखशय्यायां, सुप्ताऽकस्माद् मृताऽस्ति हा!॥७॥ अहो! कर्कशता ह्यस्या, अहो! निर्लज्जता गिराम् । इति ध्यावन्नृपेणोक्ते, मन्त्री किंक्रियतामिति ? ॥ ७४८ ॥ मन्त्र्याह स्वामिन्नत्राचे, प्रगल्भन्ते हिमात्रिकाःराजाप्राहाऽऽगतोऽस्तीहोज्जयिन्या मात्रिको महान् ॥ ७४९॥ तत आकार्यतामेष, इत्युक्तो मन्त्रिणा नृपः । आजूहवत्सदेवनं, सोऽप्यागत्य समाविशत् ।। ७५०॥ राजोचे मान्त्रिकं किं नः, पुर्या मारिविजृम्भितम् ? । सोऽप्याह नाटयन् च्यानं, राक्षसीललितं ह्यदः
॥६०॥