________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥५॥
• नास्ति नो मुनिः । क्षमतेतन्निषादस्याऽपि कुर्वे कर्म सम्प्रति॥७२७॥ करिष्ये कर्म तेऽवश्य, राज्ञेत्युक्तेऽथ
सोऽवदत् । किं किं कर्ताऽसि मे कर्म ?, राजाऽऽहाऽऽदिशसीह यत् ॥ ७२८ ॥ रक्षितव्यं श्मशानं च, लातव्यं मृतकाम्बरम् । अर्धदग्धानि काष्ठानि, ग्राह्याणि च चितिचयात् ॥ ७२९ ॥ यत् तत्रोत्पद्यते तस्या हि गृह्णाति भूपतिः । अन्यस्यार्धस्य भागौ द्वौ, ममैकस्ते तु दास्यते ॥ ७३०॥ राजाऽऽदिशति यत् किञ्चित्, तच्च कार्य त्वया सदा। गङ्गासन्नश्मशानेशः, कालदण्डाभिधोऽस्म्यहम् ॥ ७३१ ॥ इति श्रुत्वा नृपः स्माह, तं त्वदाज्ञाकृदस्म्यहम् । यदत्र 'मां प्रति स्यात् तद्, दातव्यं मुनये खलु ॥ ७३२ ॥ अपवार्य मुनिः प्रोचे, नमस्ते सत्त्वशालिने । नमस्ते सत्यसन्धाय नमस्ते धैर्यसद्मने ।। ७३३ ॥ कालदण्डोऽपि तद्वाचं, प्रपन्न: साक्षिणं मुनिम् । कृत्वा सह नृपेणासौ, श्मशानमगमद् निजम् ।। ७३४॥ इतश्च पुर्यामेतस्यामकस्मादपि देहिनाम् । जीवितव्यं हरन् मृत्युरुपतस्थे खलो यथा ॥ ७३५ ॥ ततश्च परितः प्रोद्यदाक्रन्दध्वनिभिर्जितः । निलीयाऽस्थादिव क्वापि, नगरे मङ्गलध्वनिः॥ ७३६ ॥ मृत्योर्मीता जना रक्षा, विदधत्यात्मनो यथा । तथा प्रेरितवन्मृत्युस्तान् गृह्णाति सहस्रशः ॥ ७३७ ॥ श्रुत्वाऽथ दुःसहलोकाऽऽक्रन्दं मरणजं पुरे । आह्वत् सत्यवसुं भूपो, मन्त्रिणं चन्द्रशेखरः ॥ ७३८ ॥ राजादेशात् भागिन्यर्थे द्वितीया।
॥५९॥