________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥५८॥
दत्त्वा च राजे तावादाय स्वगृहं ययौ ॥ ७१४ ॥ राजा दध्यौ न लप्स्येऽहं, पुरे वासं ततो मुनिः । यद्येति स्वर्णमेतस्मै, दत्त्वा स्यामकुतोभयः ॥ ७१५ ॥ ततः कुलपतिः कुर्वन्नाज्ञामिव समाययौ । कोपात् पराङ्मुखीभूय, प्रोचे द्राग् देहि हेम मे॥७१६ ॥ गृहाण कियदप्येतदित्युक्ते भूभुजा मुनिः । उवाच कुपितस्त्वैतद्, ग्रहीष्येऽल्पं न काञ्चनम् ॥ ७१७ ॥ मासोपरि गताः पञ्च, दिना यदि तदाऽपि हि । कियदेव ब्रूवाणस्त्वमदृश्यास्य ! न लज्जसे ॥ ७१८ ॥ दध्यौ राजाऽधमणं धिगुत्तमर्णस्य दुर्गिरः । यः सहन्नपि भूयोऽपि, तं प्रीणयति चाटुभिः॥७१९ ॥ चे च भगवन्नैव, काऽपि मे चित्तदुष्टता। विक्रीय दयिता-पुत्री, यत् प्राप्तं तत् समर्पये ॥ ७२० ॥ चेऽङ्गारमुखो मूर्ख !, राजानं प्रार्थय द्रुतम् । चन्द्रशेखरमत्रत्यं, किं विक्रीतौ प्रिया-सुतौ ?॥७२१॥ राजाऽऽख्यत् किमिदं ब्रूषेऽनुचितं सत्त्वशालिनाम् । शतशो हि पराभूतान्नाहं प्रत्यर्थिनोऽर्थये।७२२ ॥ प्रतिज्ञया भ्रष्ट! वाचाट!, पुरो नः स्वं विकत्थसे। इत्युक्ते मुनिना प्राह, राजा मा स्म मुने! कुपः॥ ७२३॥ चण्डालस्याऽपि कर्माऽहं, कृत्वा दुष्करमप्यथ । दास्ये स्वर्णमिति क्षमापोक्तेऽभूदोमाञ्चितो मुनिः॥ ७२४॥ ततः कौपीनवासोभृल्लघुपिङ्गकचोच्चयः । दृढयष्टिकरो वृद्धो, निषादः कोऽपि चाऽगमत् ।। ७२५॥ राजानं वीक्ष्य स प्रोचे, रे! त्वं कर्मकरोऽसि किम् ? । करिष्यसि च मे कर्म?, तत् श्रुत्वाऽचिन्तयद् नृपः ॥ ७२६ ॥ रविरस्तङ्गतो लोकः, क्रायको
॥५॥