________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥५७॥
स्वयम् । श्रेयश्च कुर्वतामन्तरायः स इह भुज्यते॥७०१॥ तशादीदृशी चेत् तेऽवस्वैषा तच्छुचाऽत्र किम् ?। सर्व विषहमाणो हि, कर्मभिर्मुच्यते जनः॥७०२॥ किमस्या मूल्यमित्युक्ते, ब्राह्मणेन मुहुर्मुहुः । कवचिद् द्धबायोच, राजाऽऽख्यदुचितं हि यत्।।.०३॥ ततः स्वर्णसहस्राणि, पञ्चाऽस्या मूल्यमस्तु भोः!। वदतीति द्विजे राजा, लज्जयाज्योमुखोऽभवत् ॥७०४॥ अनिषिद्धमनुज्ञातमिति विप्रे नृपाञ्चले । स्वर्ण बम्नति राजाऽऽख्यद्, मोक्षोऽस्या द्विगुणेन भोः!॥७०५॥ तत् प्रपद्य द्विजः प्राह, सुतारामग्रतो भव। चलितायां सुतारायां, रोहिताश्वोचले लगत्॥७०६॥ रुदतीदं सुताराह, तिष्ठत्वं पितुरन्तिके। आनेतुं मोदकं तुभ्यं, वत्स! यान्त्यस्मि सम्प्रति॥७०७॥ अमुञ्चत्यञ्चले तस्मिन्, मुहुर्मात्राऽपि बोधिते । भृतिके ! किं विलम्बोऽयमिति क्रुद्धो द्विजोऽवदत् ? ॥७०८ ॥ सुतारां सभयं यान्ती, यावद् मुञ्चति नार्भकः। तावत् करतलेनैतमाहत्याऽपातयद् द्विजः॥७०९॥ सबाष्पं पुनरुत्थाय, मातुर्वस्वाञ्चलेऽलगत् । पुनर्द्विजेन भूमौ स, पादेनाऽऽहत्य पातितः॥१०॥राजा सामं ततो दध्यौ, धिगापदमिमां मम। इन्द्रस्याप्यालाल्योऽयं, पदा विप्रेण हन्यते॥११॥ ततः प्रोचे नृपो विप्र!, न तिष्ठेद् मातरं विना। शिशुः किमपि ते कर्म, कर्ता क्रीणीहामुंततः॥१२॥ नैतं मुधाऽपि गृहामीत्यूचानं द्विजमब्रवीत्। . सुताराऽर्य ! गृहाणेनं, विधाय मय्यनुग्रहम् ॥ ७१३॥ विप्रोऽपि कृपया स्वर्णसहस्रं तस्य वेतने। कृत्वा
॥५७॥