SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥५६॥ तथाऽप्यहं स्वर्ण, दास्यामि मुनये खलु ॥ ६८८ ॥ साक्षेपं प्राह देवी तु, किन्नु स्यात् प्रलयेऽप्यदः?। विमुच्य त्वामहं यान्ती, सत्यं जाताऽस्मि दुर्जया॥ ६८९ ॥ सरसीव पयःपूर्णे, सर्वमृद्धौ समं भवेत् । नैःस्व्ये स्व-परयोर्भेदः शुष्केऽस्मिनुच्च-नीचवत् ॥ ६९० ॥ किञ्च-वरं मृत्युवरं भिक्षा, वरं सेवाऽपि वैरिणाम् । दैवाद् विपदि यातायां, स्वजनाऽभिगमो न तु॥६९१॥ अपि च-सा सती या हिया भर्तुः, सम्मुखे दिवसेऽनुगा । तनुच्छायेव धैर्येण, प्रतीपेऽस्मिन् पुरो भवेत् ॥ ६९२ ॥ इतश्च ब्राह्मणः कोऽपि, वीक्षमाण इतस्ततः । भृतिकां काञ्चिदायासीदुपभूपं स उन्मुखः ॥ ६९३ ॥ दृष्ट्वा च भूपमापादमस्तकं चक्रि लक्षणम् । बूचे कस्त्वं कथं देहं, श्रीगेहं भृतकीयसि ? ॥ ६९४ ॥ शुचाऽऽत्तमौनं भूपालमालप्याऽगच्छदग्रतः । दृष्ट्वा सुतारां साम्रोऽभूदुच्चैर्दैवं निनिन्द च ॥ ६९५ ॥ रतेरपि शिरोरत्नमेतां निर्माय सुन्दरीम् । कथं नयसिरे! देव!, हन्त ! दास्यविडम्बनम् ॥ ६९६ ॥ यत:-स्निग्धमङ्गं सतीरूपं, सुवर्ण साधुभाषिताम्। धत्ते किमपि लावण्यमसंस्कृतमपीतरत्॥६९७ ॥ सुतारायाः पुरः पुण्यं, रोहिताश्वं सुलक्षणम् । दर्भातशिरसं प्रेक्ष्य, धिक् शास्त्रमिति सोऽब्रवीत् ॥ ६९८ ॥ सामेषु लक्षणानीह, कथ्यन्ते यानि कानिचित् । सन्ति सर्वाणि तान्येषामवस्था पुनरीदृशी॥६९९ ।। नृपः स्वानुभवं ग्राहं, मा मैवं त्वं द्विज! ब्रवीः । शास्त्रं नहि मृषाभाषि, किन्तु मे कर्मवैभवम् ॥ ७००॥ पूर्वे जन्मनि यश्चक्रे, ददतामदतां ॥५६॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy