SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥५६॥ तथाऽप्यहं स्वर्ण, दास्यामि मुनये खलु ॥ ६८८ ॥ साक्षेपं प्राह देवी तु, किन्नु स्यात् प्रलयेऽप्यदः?। विमुच्य त्वामहं यान्ती, सत्यं जाताऽस्मि दुर्जया॥ ६८९ ॥ सरसीव पयःपूर्णे, सर्वमृद्धौ समं भवेत् । नैःस्व्ये स्व-परयोर्भेदः शुष्केऽस्मिनुच्च-नीचवत् ॥ ६९० ॥ किञ्च-वरं मृत्युवरं भिक्षा, वरं सेवाऽपि वैरिणाम् । दैवाद् विपदि यातायां, स्वजनाऽभिगमो न तु॥६९१॥ अपि च-सा सती या हिया भर्तुः, सम्मुखे दिवसेऽनुगा । तनुच्छायेव धैर्येण, प्रतीपेऽस्मिन् पुरो भवेत् ॥ ६९२ ॥ इतश्च ब्राह्मणः कोऽपि, वीक्षमाण इतस्ततः । भृतिकां काञ्चिदायासीदुपभूपं स उन्मुखः ॥ ६९३ ॥ दृष्ट्वा च भूपमापादमस्तकं चक्रि लक्षणम् । बूचे कस्त्वं कथं देहं, श्रीगेहं भृतकीयसि ? ॥ ६९४ ॥ शुचाऽऽत्तमौनं भूपालमालप्याऽगच्छदग्रतः । दृष्ट्वा सुतारां साम्रोऽभूदुच्चैर्दैवं निनिन्द च ॥ ६९५ ॥ रतेरपि शिरोरत्नमेतां निर्माय सुन्दरीम् । कथं नयसिरे! देव!, हन्त ! दास्यविडम्बनम् ॥ ६९६ ॥ यत:-स्निग्धमङ्गं सतीरूपं, सुवर्ण साधुभाषिताम्। धत्ते किमपि लावण्यमसंस्कृतमपीतरत्॥६९७ ॥ सुतारायाः पुरः पुण्यं, रोहिताश्वं सुलक्षणम् । दर्भातशिरसं प्रेक्ष्य, धिक् शास्त्रमिति सोऽब्रवीत् ॥ ६९८ ॥ सामेषु लक्षणानीह, कथ्यन्ते यानि कानिचित् । सन्ति सर्वाणि तान्येषामवस्था पुनरीदृशी॥६९९ ।। नृपः स्वानुभवं ग्राहं, मा मैवं त्वं द्विज! ब्रवीः । शास्त्रं नहि मृषाभाषि, किन्तु मे कर्मवैभवम् ॥ ७००॥ पूर्वे जन्मनि यश्चक्रे, ददतामदतां ॥५६॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy