SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥५५॥ - मां विक्रीयाऽऽर्यपुत्राऽस्मै, तद् यच्छेति तयोदिते । राज्ञोक्तं विक्रयश्चेत् तत्, सर्वेषां नहि कस्यचित् ॥६७६ ॥ रोहिताश्वोऽब्रवीत् सासं, मा विक्रेताऽस्तु मां पिता। मातारय तातं मां, विक्रीणानं पुरे धनैः ॥६७७॥ सुतारा रोदिति क्षमापो, बाष्पं रुद्ध्वाऽऽह वत्स! कः । विक्रेष्यते त्वां सोऽप्याह, तात ! विक्रेष्यते भवान् ॥ ६७८ ॥ त्वदन्तिकेऽम्ब ! स्थास्यामि, यास्याम्यन्यगृहे न तु । वरं मे मोदकं मा दा, इत्यूचानो रुरोद सः ॥ ६७९ ॥ राज्ञोचे देवि ! नैवाहं, पुत्रस्य करुणं वचः । श्रोतुं शक्नोमि तदिमं, कथञ्चिदपि वारय ॥ ६८० ॥ रुदत्याह सुतारा त्वं, चक्रवर्ती भविष्यसि । मा रोदीस्तिष्ठ वत्स ! त्वां, विक्रेष्यति न कश्चन ॥ ६८१ ॥ रोहिताश्वस्य वाचाऽथ, मनोमर्माविधा रुदन् । पुरीभृतकवीथ्यां स, तस्थौ श्रेण्यां नृपस्ततः ॥ ६८२ ।। किञ्चिद् विमृश्य च क्षिप्रं, तृणान्यानीय भूपतिः । न्यसन मूर्ध्नि सुतारोक्तः, प्राहेषा भृतकस्थितिः ॥ ६८३॥ रोहिताश्वं धुनानं स्वं, शिरः प्राह ततो नृपः । विधेहि मदचो वत्स!, तुभ्यं दास्यामि हस्तिनम् ॥ ६८४ ॥ दध्यौ सुतारा धिग् दैवं, भवे भवशतानि यः । दत्ते यन्नः क्व सा लक्ष्मीः, क्वैषा विक्रयवाच्यता?॥ ६८५॥ राजाऽप्यचिन्तयद् दत्ता, न तथाऽकीर्तये मही। यथा हकीर्तये पत्नी-पुत्रयोरिह विक्रयः॥ ६८६ ॥ विसृजामि सुतारां तत्, सपुत्रा पितृवेश्मनि । यद् भाव्यं तदहं सोढा, ध्यात्वेत्यूचे च तां नृपः ॥ ६८७ ॥ देवि ! याहि पितृकुलं, पुत्रमादाय सम्प्रति । यथा ॥५५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy