________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥५४॥
सवैलक्ष्यं पुनर्भूपे, बोधयत्येवमेव तम् । आगादकस्मात् क्वाप्येका, वृद्धा पाथेयमस्तका ॥ ६६३ ॥ पृच्छन्ती नगरीमार्ग, भूपं साऽऽहेदमद्भुतम् । चक्रिणो लक्षणान्यङ्गेऽवस्था च कथमीदृशी?॥६६४॥ कथा नः श्रूयमाणाऽपि, कातराणां भयावहा । तन्मा पृच्छ पुरो गच्छ, राज्ञेत्युक्ते चचाल सा॥६६५ ॥ मोदकं देहि मे मातर् !, सुतरामिति भाषिणि । रोहिताश्वे ततो वृद्धा, निवृत्य तमढौयकत् ॥ ६६६ ।। स्वयं निर्लम्पटत्वेन, सात्त्विकस्य सुतत्वतः । बुभुक्षितोऽपि बालोऽपि, रोहिताश्वोऽग्रहीन्न तम्॥६६७॥ नानुकम्पाप्रदानं ते, गृह्णीमो वयमध्वगे!। प्रत्याख्यातेति राज्ञा सा, ययौ क्वापि क्षणादपि ॥ ६६८ ॥ देवि! चेद् गतखेदाऽसि, तदोत्तिष्ठ पुरीं प्रति । याम इत्थं नृपेणोक्ते, सुताराऽऽह सगद्गदम् ॥ ६६९ ॥ निजराज्यपरिभ्रंशलज्जासज्जमना: कथम् । प्रवेक्ष्यत्यार्यपुत्रोऽत्र, वैरीपुर्या स्थितद्विषि ? ॥ ६७० ॥ सावष्टम्भं नृपः प्राह, का लजा सत्त्वशालिनाम् ? । पूर्णीकर्तुं निजां सन्धामापदो यदि तन्महः॥६७१॥ सुताराऽऽह भवेद् दैवात्, सा काऽप्यापदतर्किता। यत्र स्वस्य पराभूतिर्वैरिवर्गस्य तूत्सवः ॥ ६७२ ॥ राजा प्रोवाच देवि! त्वं, न विचार्य प्रभाषसे। लक्ष्म्या बलेन वा हीनो, यदि स्यां तत् पराभवः॥ ६७३॥ इदं पुराकृतं कर्म, प्रभवत् केन वार्यते ? तत्प्रभावाद् दशाऽस्माकं, यद्येषा तद् द्विषां किमु?॥६७४॥ ततः प्रति पुरी राजा, प्रतस्थे प्रियया सह । तामाह स्यात् कुतः स्वर्ण, यदासन्नोऽवधिर्मुनेः ?॥ ६७५॥
॥५४॥