________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥५३॥
सम्पदः पुंसां, तदा सर्वोऽनुगच्छति। इदानीमार्यपुत्रं यन्न कोऽप्यागादनुव्रजन्॥६५०॥स्तुत्यः स्तौतीहते काम्योऽनुगम्योऽप्यनुगच्छति। नरं यस्यां प्रसन्नायां, को हि नेच्छति तां श्रियम् ?॥ ६५१॥ स्वप्नदृश्या ततोऽभूदनः, सा सम्पद् यां विनाऽधुना। पद्भ्यां यानं क्षितौ शय्या, कदाहारो मनःक्लमः ॥ ६५२ ॥ इत्यूचाना पिधायाऽऽस्यं, रुरोदोच्चैर्नृपप्रिया। रोहिताश्वस्ततोऽरोदीद, भूत्वा साश्रुनूपोऽवदत् ॥६५३॥ मा रोदीव धीरा त्वं, सात्त्विकत्वमुरीकुरु । मा मा शोकपिशाचोऽस्मान्, गृह्णातु परितो भ्रमन् ॥६५४॥ रोहिताश्वस्ततोऽवोचदहं तात! बुभुक्षितः । राजाऽऽदिक्षदरे ! क्षिप्रं, देहि वत्साय मोदकम् ॥ ६५५॥ न कोऽपि यावदायाति, विलक्षो नृपतिस्ततः । किमेतदिति देव्योक्तः, पूर्वाभ्यासोऽब्रवीदिति ॥ ६५६ ॥ रोहिताश्व: पुनः प्राह, हे मातः ! क्षुधितोऽस्म्यहम् । रुदती तारतारं सा, सुतारा सुतमब्रवीत् ॥ ६५७॥ चक्रवर्तित्वप्रतिभूलक्षणोपेतवर्मणः। भरतान्वयजातस्याऽवस्था केयं तवागता?॥६५८॥ अथ दध्यौ नृपः कीदृग, राज्यस्यैतादृशः फलम् । रुदतो यत् तनूजस्य, प्रातराशेऽप्यशक्तता? ॥ ६५९ ॥ आस्तां विनोदयाम्येनं, कौतुक-प्रेक्षणादिभिः । पश्येतः पुत्र ! गङ्गायां, मिथ: क्रीडन्ति पक्षिणः ॥ ६६० ॥ हंसोऽयं सारसोऽयं च, कोकद्वन्द्वमिदं पुरः । कलापं पूरयित्वा च, नृत्यत्येष शिखी कथम् ? ॥ ६६१॥ तन्नामोच्चारपूर्व तु, वीक्षमाणः सविस्मयम् । रोहिताश्वः पुनः प्राह, ताताऽहं क्षुधितो भृशम् ॥ ६६२॥
॥५३॥