________________
वाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥५२॥
पुनः किचिदस्त्ववैधव्यलक्षणम् । भूषणं भगवन्नेवं निशम्य मुनिरब्रवीत् ॥ ६३७ ॥ तव भद्रे ! हरिश्चन्द्र एवाऽवैधव्यलक्षणम्। इति वाचि मुनौ साम्रा, सुताराऽप्यभवत् ततः॥६३८॥ मन्त्री प्राह मुनि कोपादरे रे! ब्रह्मराक्षस! नृपो विज्ञो ददत् ते क्ष्मां, किंवा गृह्णनितो भवान् ? ॥६३९ ॥ क्रुधा प्रोचे मुनिर्नाऽयं, कृत्येषु विदुरो नृपः । न चाऽहमपि विज्ञोऽस्मि, विज्ञस्त्वं योऽन्तरायकृत् ॥ ६४०॥ मुनिः क्रुधाऽक्षिपद् भूमी, गृहीत्वाऽम्भः कमण्डलोः । आह चास्ति तपश्चेन्मे, तदा त्वं द्राक् शुको भव ॥ ६४१ ॥ ततश्च सचिवः कीरो, भूत्वाऽगाद् नभसा क्वचित् । राजा तु सभयं नत्वाऽवोचदेष गतोऽस्म्यहम् ॥ ६४२ ॥ निवार्य रुदतो भूपः, पूर्लोकानन्वयप्रियान् । क्षमयित्वा स्वापराधान्, प्रतस्थे सप्रियासुतः ॥ ६४३ ॥ अनुरागाल्लुठद्बाप्पमनुयान्तं पुरीजनम् । कष्टान्निवर्तयामास, राजा स्नेहगिरा मृदुः॥६४॥ प्रचलन सात्विकः पुत्र-कलत्राभ्यां समन्वितः । कथं कथमपि प्रान्तमध्वनः प्राप भूपतिः ॥ ६४५ ॥ दूरमार्गपरिश्रान्ता, सुतारा नृपमब्रवीत् । कियदद्यापि गन्तव्यं, खिन्नान्यङ्गानि नाथ ! मे?॥ ६४६ ॥ उवाच नृपतिर्देवि!, मा ताम्यः किं न पश्यसि। अभ्रंलिहगृहाकीर्णामाराद् वाराणसी पुरीम् ?॥६४७॥ अतीव यदि खिन्नाऽसि, वहन्ती पुत्रमात्मना । अनुगङ्गातट रूढं, तदा चम्पकमाश्रय ॥ ६४८ ॥ देव्या तथाकृते राजा, स्वेनैव समवाहयत् । यथासुखं तदङ्गानि, ततो देवी व्यचिन्तयत् ॥ ६४९ ॥ यदा हि
॥५२॥