________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥४९॥
. शक्तिस्तदा प्रहर सत्त्वरम् ॥५९८ ॥ नृपो दध्यौ स्वप्रतिज्ञाघातिना कलहेन किम् ?। तापसेन सहाऽनेन, क्रियते कृत्यमेव हि ॥ ५९९ ॥ कणे च कथिते भूपेनाऽऽनीयाभरणान्यपि । कुन्तलेनाऽर्पितान्येष, राज्ञोऽमूनीत्यपाकरोत् ॥ ६००॥ कुन्तलो वसुभूतिश्चाहतुः कुलपते ! नृपः । यावद् ददाति ते स्वर्ण, तावदावां गृहाण भोः!॥६०१॥ मुनिराह त्वया जूर्णमाजरिण करोमि किम् ?। अल्पेन कुन्तलेनाऽपि, कः स्वर्ण स्वमुपेक्षते ? ॥६०२॥ आदिक्षत् कुन्तलं राजा, देवीभूषणमानय । स ययाचे ततो देवीं, देव्याहेष्याम्यहं स्वयम् ॥ ६०३ ॥ तेन दर्शितमार्गाऽसौ, रोहिताश्वेन संयुता। आययौ सदसि क्षिप्तं, सुतारा सावगुण्ठना ॥ ६०४ ॥ प्रणम्यैषा मुनिं प्रोचे, गृहाणाभरणं मम । मुनिराह पितुर्भर्तुर्वैतान्येषाऽब्रवीदिति ॥६०५॥ आर्यपुत्रेण मे योग्यं, नेपथ्यमिदमर्पितम् । मुनिराह ततः केयं, दक्षता ते पतिव्रते! ? ॥६०६ ॥ चेङ्गारमुखः किं न, जानासि त्वमियं किल । महाकूटनिवासस्य, हरिश्चन्द्रस्य गेहिनी!॥६०७॥ त्वदीयमेवाऽर्पयते, वस्तु येत्युदितेऽमुना। आबद्धभ्रकुटीभङ्गः, कुन्तलोऽथ रुषाऽवदत् ॥ ६०८ ॥ अरे ! तापस ! नो वेत्सि, देवीमेतां महासतीम् । तदेष त्वं न भवसीत्युक्त्वा सोऽप्यवदद् नृपम् ॥६०९॥ विमृशाऽद्यापि मा मुह्यः, किं यते: स्यात् परिग्रहः । वाचश्माः स्युरेते हि, मुनिव्याजेन राक्षसाः ?॥६१०॥ ततः कुलपतिः क्रोधादूचे कर्मकराधम! आसादितपरज्ञानानधिक्षिपसि
॥४९॥