SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥४८॥ कोपकम्पमानापरोऽवदत् । विलम्बः कोऽयमद्याऽपि, राजन् ! विसृज मां ततः,॥५८६॥ वसुभूतिर्मुनि प्राह, विश्वदृश्या त्वमस्यथ । हरिश्चन्द्रसमः क्वापि, दृष्टः किं कोऽपि सात्त्विकः ? ॥ ५८७ ।। सोपहासमुवाचाऽथाङ्गारवक्त्रो न मन्त्र्यपि। दृष्टोऽभूत् त्वादृशो नापि, हरिश्चन्द्रसमो नृपः ॥५८८॥ नृपं प्रति मुनिः प्रोचे, मायाविन् ! किं वृथोदितैः ?। हंसि मध्याह्वसन्ध्यां नः, सत्त्वं सत्यं च ते ह्यदः? ॥५८९॥ चेजारमुखो राजन् !, वाञ्छसि त्वं किमात्मनः । कुलस्य यशसो लोकस्याऽऽकस्मिकमिह क्षयम् ? ॥ ५९० ॥ प्रणम्योचे नृपो भीतेस्त्वत्तः किं स्यात् क्षयोऽपि नः ? । उपपूर्वाचलं नैव, ग्रहाणामस्तसम्भवः ॥ ५९१ ॥ निहन्ति पाणिना भूपं, मुनिस्तं नतवान् नृपः । कोपे क्षान्तौ च तावेव, तदाऽभूतां निदर्शने ॥ ५९२ ॥ सरोषमङ्गारमुखो, भूपं प्राह नृपाधम !। विप्लावयसि किं नस्त्वं, मृषाभाषामहोदधे! ॥ ५९३ ॥ आहङ्गारमुखं मन्त्री, विरोधस्ते मिथः कथम् ? । क्वेदृक् तपो रुषः क्वेमास्तन्मा ब्रह्म कलय ? ॥ ५९४ ।। प्राहगारमुखः कोपादस्थापितमहत्तर !। कस्त्वमपि मम ब्रह्मचिन्तायां सचिवाधम!?॥५९५॥ अरे ! राजंस्त्वमेनं किमन्तरालापिनं बटुम् । न निवारयसे किं मे, न प्रयच्छसि काञ्चनम् ?॥५९६ ॥ राज्ञोचे त्वं मुने! स्वैरं, ब्रूहि सर्वसहोऽस्मि यत् । सूर्यवंश्या हि नैवेा, भजन्ते यतिषु क्वचित् ॥५९७ ॥ चेजारो यतिनाहं, किन्त्वेष ब्रह्मराक्षसः । ततो यद्यस्ति ते ॥४८॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy