SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥४७॥ . क्षिते: ? ॥ ५७३ ॥ इत्युक्ते मुनिना राजा, प्राह मध्ये क्षितेर्मुनिः । ब्रूते स्वामी क्षितेः कोऽत्र ?, राजाऽऽख्यत् त्वं न चाऽपरः ॥ ५७४ ॥ मुनिरूचे ततः कोऽयं, प्रकर्षः कौशलस्य ते। यन्मदीयेन हेम्ना मेऽनृणीभवितुमिच्छसि ?॥५७५॥ तदास्तां काञ्चनं यामो, दृष्टं सत्यं तवेयता। इत्युदित्वा मुनौ याति, राजा तस्य पुरोऽवदत् ॥ ५७६ ॥ विलम्बध्वं क्षणं यावदानयाम्यन्यदन्यतः । सकष्टमिव तस्थौ च, स मुनिर्भूभुजाऽर्थितः॥५७७॥ ततो राजा मन्त्रिकणे, किमप्याचष्ट मन्त्र्यथ । केनचित् पुरुषेणाऽऽश्वऽजूहवद् वणिजोऽखिलान् ।। ५७८॥ मुनिना दिव्यशक्त्या ते, हरिश्चन्द्रे द्विषःकृताः सम्भूय मन्त्रयामासुः। स्वामी नोऽतः परं मुनिः॥ ५७९ ॥ हरिश्चन्द्रस्य दत्तेन, किं द्रव्येण वृथाऽधुना ? । यो हि स्वामी पुरस्याऽस्य, देयोऽस्माभिः करोऽस्य तत् ॥ ५८० ॥ इति मन्त्रयतो मन्त्री, तानूचे रहसि स्थितः । राजा वोऽर्थयते स्वर्णमधमणों मुनेः स यत् ॥ ५८१ ॥ पश्यतस्तान् मिथो वक्तुं, स्वर्णदाने कृत्तोत्तरान् । हरिश्चन्द्रस्ततोऽभ्येत्य, स्वयमर्थयते स्म तान् ॥ ५८२ ॥ हे पौरा: ! वोऽञ्जलिर्बद्धो, दत्त स्वर्ण कियन्मम। कुतश्चिदपि याचित्वा, दास्ये वः काञ्चनं पुनः॥५८३ ॥ अल्पद्रव्या वयं दातुं, स्वर्णलक्षं न शक्नुमः। इत्यूचिवांसो वणिजो, राज्ञाऽऽदिष्टा ययुर्गृहान् ॥ ५८४ ॥ विलक्षोऽथ नृपो दध्यौ, किं करोमि ? कुतः पुनः । समानयामि तत् स्वर्ण ?, हा ! धिक् कीदृगुपस्थितम् ? ॥ ५८५ ॥ ततः कुलपतिः ॥४७॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy