SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥४६॥ सशल्य इव निःश्वसन् । विलासमण्डपेऽह्वाय, सचिन्तो नृपतिं ययौ ॥ ५६१ ॥ नत्वोपविष्टे तस्मिंश्च, मन्त्रिण प्राह भूपतिः । वराहाऽऽवेदकस्याग्रे, प्रतिज्ञातमकृष्महि ॥ ५६२ ॥ मन्त्र्याह देव ! तत् सर्वं, वृत्तान्तं ज्ञातवानहम् । राज्ञोचे सस्मितं तर्हि, कुन्तलस्तद् न्यवेदयत् ॥ ५६३ ॥ मन्त्री प्राह विभो ! कस्य, प्रभुत्वं न मुदे भुवि । अनौचित्यमपि स्तौति, यत्रौचित्यमिवाऽनुगः ॥ ५६४ ॥ किन्तु विज्ञपयिष्यामि, कर्णयोः कटु किञ्चन । नाथाऽयं वसुधात्यागो, नहि मे प्रतिभासते ॥ ५६५ ॥ राज्ञोचे सत्यं किन्त्वेतद्, युक्तं नो युक्तमेव वा । प्रारम्भाद् युज्यते पूर्व, निर्वाहोऽङ्गीकृते पुनः ॥ ५६६ ॥ किञ्च यान्तु श्रियो नाशं, प्रयातु निधनं कुलम् । प्रवासो वाऽस्तु निर्वाहः, प्रतिज्ञाते भवेद् यदि ।। ५६७ ।। अलं तदेतया पूर्वकृतमीमांसयाऽधुना । स्वर्णलक्षं हि ढौकस्व, स्वेनाऽऽयाति मुनिर्यतः ॥ ५६८ ॥ ततः सशिष्यः स मुनिः कुर्वन्नागाद्, नृपस्तुतिम् । अहो ! अगोचरे वाचां राज्ञोऽस्य चरितं महत् ।। ५६९ ।। पुरोभूय नृपस्याsसौ, सकोप इव मायया । अयाचत स्वशिष्येण, स्वर्णलक्षं महीपतिम् ।। ५७० ॥ नृपाऽऽदेशादथाऽऽदिक्षत्, स मन्त्री कुन्तलं ततः । सोऽपि स्वर्ण समादाय, मुमोच नृपतेः पुरः ।। ५७१ ।। राज्ञोक्तः सचिवस्तस्मै, तापसाय ह्युपानयत्। सोऽपि वीक्ष्य किमेतद् भोः ! ?, पप्रच्छेति नृपं मुनिः ॥५७२ ॥ राज्ञोचे वञ्चनास्वर्ण, कुत एतन्मुनिर्जगौ ? । अथाऽऽख्यद् नृपतिः कोशाद्, बहिरन्तः स वा कथाचतुष्टयी। ॥४६॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy