________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
॥४५॥
कोऽपि, शिष्यो यावदियं मृगी। तिष्ठेत् तावद् विपन्नान, पाठस्तत् क्रियतां किमु?॥५४८ ॥ सखेदं 'मुनिरूचेऽस्याः, कारयाऽनलसंस्कृतिम् । वञ्चनाह मया सार्धमस्याः स्यादग्निसंस्कृतिः ॥ ५४९ ॥ राजातां विनयादूचे, ममैकं दुर्नयं सह। अहं तुभ्यं प्रदास्यामि, स्वर्णलक्षमसंशयम्॥५५०॥ कष्टादिव तयाऽप्योमित्युक्ते प्राह मुनिस्ततः। दीयतां तर्हि हेमाऽस्यै, राजा प्राहैतन्मत्पुरे॥५१॥ प्रातः सन्ध्याविधि कृत्वा, पश्यैते वयमागता इत्याकर्ण्य मुनि राजाऽवोचत्त धुना वयम् ॥५५२॥ इक्ष्वाकुवंशभूपालगुरुं श्रीनाभिसम्भवम् । देवं शक्रावतारस्थमर्चित्वा याम धामनि ॥ ५५३ ॥ (युग्मम्) एवं कृत्वा च पाश्चात्यागतसैन्येन संयुतः। हरिश्चन्द्रनृपोऽयोध्या, प्रविवेश दिनात्यये॥५५४॥ अथ राज्यमहास्तम्भः, सर्वनीतिविशारदः । मन्त्री मित्रं च तस्यासीद, वसुभूतिर्महीपतेः ॥५५५॥ कुन्तलाद ज्ञातवृत्तान्तः, स दथ्यौ हृदि हा! कथम् । अपर्यालोचयन्तोऽर्थ, राजानःस्वोपघातका:?॥५५६॥ ददता वसुधां तस्मै, तापसाय दुरात्मने। देशाद् देशप्रवासो हि स्वीकृतो भूभुजा स्वयम् ॥ ५५७ ॥ यदन्येनाऽदृष्टचरो, वराह कोऽप्यवेदयत् । भूभुजे तद् ध्रुवं किञ्चिद्, दिव्यमेतद् विजृम्भितम् ॥ ५५८ ॥ अविमृष्टायतिर्भूपः, क्षीयते न्यायवानपि । अत एव विमृष्टारः, सन्निधेयाः सुमन्त्रिणः ॥ ५५९॥ किं कुर्मो दुर्षियः कुर्युर्यत् किचन महीभुजः । तत्तत्प्रतिक्रियाव्यग्रैः, क्लिश्यन्ते सचिवैः पुनः ॥ ५६०॥ विमृश्यैवं तदामात्यः,
॥४५॥