SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥४४॥ सकोपं मुनिरप्यूचेऽद्यापि श्रावयसे गिरम् । मायाविन् ! हरिणीभ्रूणघातपातकपङ्किलाम् ? ॥ ५३५ ॥ ततोऽङ्गारमुखोऽवादीत्, प्रसादं कुरु मा रुषः । तपस्तेजोनिधे ! नायमपमानं नृपोऽर्हति ॥ ५३६ ॥ किन्तु दुष्कर्मणोऽमुष्य, पवित्रीकारकारणम् । शास्त्रानुपाति यत् किञ्चित्, तदेवाऽऽशु समादिश ।। ५३७ ॥ मुनिरूचेऽङ्गारमुख !, शुद्धिरस्य तदा भवेत् । सर्वस्वं यद्यसौ दत्ते, दानं ह्यघनिवृत्तये ॥ ५३८ ॥ सोच्छ्वासं नृपतिः प्रोचे, प्रसीद भगवन् ! मयि । सर्वस्वं मे गृहाण त्वं, विलयं यात्वधं मम ॥ ५३९ ॥ किं न प्राप्त मया त्रातः !, शुध्यामि यद् यतस्ततः । सग्रामाऽश्वेभकोशा भूर्दत्ता तेऽम्बुधिमेखला ।। ५४० ॥ प्रणम्य मुनिमङ्गारमुखः प्राह कृताञ्जलिः । राजा यदभिद्यत्ते तद्, भगवन् ! प्रतिपद्यताम् ॥ ५४१ ॥ अथाऽपसार्य राजानमूचतुः सुहृदौ मृदु । अकाण्डे कोऽयमुत्पातो, राजन् ! विमृश मा मुहः ? ॥ ५४२ ॥ राजाऽवज्ञाय तद्वाचमूचे सप्रश्रयं मुनिम् । यदुक्तं भगवन्नस्तु, गृहाण वसुधामिमाम् ॥ ५४३ ॥ क्षामाक्षरं मुनिः प्राह, दत्तास्मभ्यं मही त्वया । नार्हस्यतः परं पृथ्व्या, भोगमोमिति सोऽब्रवीत् ॥ ५४४ ॥ तदा तत्रागतं वाराणसीतः शिष्यमात्मनः । मुनिं कौटिल्यनामानमाजूहवत् स तापसः ॥ ५४५ ॥ हरिश्चन्द्रेण मे पृथ्वी, दत्ता जलधिमेखला । इत्यर्थे खलु साक्षी त्वमिति तं मुनिरादिशत् ॥ ५४६ ॥ कौटिल्योऽप्यवदद् राजन्नन्त्रार्थे साक्षिणो वयम् । ओमित्युक्ते नृपेणाऽगात्, स स्वं स्थानं मुदा नृपः ॥ ५४७ ॥ अथ व्यजिज्ञपत् कथाचतुष्टयी। ॥४४॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy