________________
श्रीजैन
कथाचतुष्टयी।
कथासंग्रहः
॥४३॥
पुत्रीमस्मत्प्राणप्रिया खलु ॥५२२॥ विना सधर्मचारिण्या, कुतो मे तपसां विधिः ? । तपोविधि विना मे स्याद्, ऋषित्वमनघं नहि ॥ ५२३ ॥ राजन्निक्ष्वाकुराजेन्द्र !, कौतस्त्योऽयं तपस्विनाम् । इत्वमाकस्मिकः शोकशकुस्त्वय्यपि भूपतौ ? ॥ ५२४ ।। ततः कुतोऽपि तं ज्ञात्वा, साधुबाधाकर परम् । श्वपाकं शाधियानस्त्वं, लोकपालोऽपि पञ्चमः ॥ ५२५ ॥ वञ्चना त्वाह मां तात !, चितामारोदुमादिश। किं न वेत्सि ममण्या हि, मरणं क्रकचायते ? ॥५२६ ॥ सर्विषादं नृपः प्रोचे, मुने ! कुर्वेऽहमत्र किम् । परेषां दण्डमाधातुमलमेषोऽस्मिनात्मनः ? ॥५२७॥ ससंरम्भं च सौत्सुक्यं, मुनिः प्रोवाच नन्वहो ! । इयता स्यात् किमुक्तं यद्, मया व्यापादिता मृगी ? ॥ ५२८ ॥ पश्चात्तापात् स्वमात्मानं, प्रणिन्दति महीपतौ । पिधाय वल्कलेनास्य, पूच्चक्रेऽथ समायिकः ॥ ५२९ ॥ बूचे च कुपितो भूपमा: ! पाप ! वहसि ध्रुवम् । कोदण्ड-शरीं हन्तुं, ध्यानलीनांस्तपस्विनः ? ॥ ५३०॥ निपत्य पादयो राजा, विनयाद् मुनिमब्रवीत् । तमेकमपराधं मे, क्षमस्व त्वं क्षमानिधे! ॥५३१ ।। मुनिः पराङ्मुखो भूत्वा, चुक्रोश नृपमुच्चकैः । भरतान्वयचन्द्राङ्क!, व्रज व्रजममाश्रमात् ॥५३२॥ युष्मादृशां
इमुजी भत्ता, पाप निघृणानां, श्रुता वागपि पाप्मने । किं पुनः कर्मचण्डाल!, वाचाल! सङ्गमस्त्वया ॥ ५३३ ॥ राजा सविनयं प्राह, मुने! ब्रूहि करोमि किम् ? । विशाम्याग्निं त्यजामि क्ष्मां, चरामि व्रतमेव वा॥५३४॥
॥४३॥