SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कथाचतुष्टयी। श्रीजैन कथासंग्रहः ॥४२॥ अस्मिन्नवसरे क्वाऽपि, जातः कोलाहलो महान्। किमेतदिति सम्भ्रान्ती, मुनि-भूपौ बभूवतुः॥५१०॥ अब्रह्मण्यमब्रह्मण्यमिति च व्याकुलं वचः। श्रुत्वा कुलपतिः शिष्यं, तं ज्ञातुं प्राहिणोद् द्रुतम् ॥५११॥ पुनरार्तस्वरो जज्ञे, स्त्रीणां शोकस्पृशामिति । मातश्चेद् मे मृगी मर्ता, करिष्येऽनशनं तदा ॥ ५१२ ॥ माताऽपि प्राह चेद् वत्सेऽनशनं त्वं करिष्यसि । तदाहमपि कर्तास्मि, विना त्वां जीवितेन किम् ? ॥५१३ ॥ श्रुत्वा कुलपतिश्चैत्द, हृदयं स्फोटयद् वचः। किं नः प्राणप्रिया पुत्री, वञ्चनाऽनशनीयति ? ॥५१४॥ इयं च निकृतिर्ननूनमस्मत्सधर्मचारिणी । वत्सामनुसरन्त्येतद्, ब्रूते किमसमञ्जसम् ? ॥ ५१५ ॥ ततोऽङ्गारमुखादाशु, स तापस्यावजूहवत् । आजग्मतुरथो तारं, ते रुदत्यावुभे अपि ॥ ५१६ ॥ उवाच वञ्चनां मायी, मुनिः किं पुत्रि ! रोदिषि? । साऽऽह जानाति तातो यदस्ति क्रीडामूगी मम ॥ ५१७ ॥ सोऽप्याह या त्वया बाल्यात्, पोषिता स्वकरार्पितैः । नीवारकवलैस्तस्यास्तत: किमभवत् सुते ! ? ॥ ५१८ ॥ इत्युक्ते वञ्चना तारस्वरं रोदिति केवलम् । ततः प्रविश्य सम्भ्रान्तः, शिष्यः कुलपति जगौ॥ ५१९ ।। भूरराजन्वती सेयमब्रह्मण्यमहो ! महत् । मृगयाव्यसनात् पापः, कोऽप्यहन् गर्भिणी मृगीम् ॥ ५२० ॥ सासं कुलपतिः प्रोचे, हहा ! किं भाव्यतः परम् ? । यतस्तां निघ्नता तेनाऽऽनीतोऽस्माकं कुलक्षयः ॥ ५२१ ॥ विना मृी कथं जीवेद, वत्सा तज्जीविता ततः । न प्राणिति विना
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy