________________
CCCCCCCCC€€€€€€€€€€
एता वयं कलत्राणि ते चतस्त्रोऽपि सुंदर ! । एते सर्वेऽपि ते देवाः सर्वदादेशकारिणः ॥३२१ ॥ प्राच्यजन्मकृतं पुण्यमादौ नः पुरतोवद । पश्चात्स्वर्गसमाचारं यथा कुर्मो वयं तव ॥ ३२२ ॥ जप्तस्त्वयामहामंत्रस्तपस्तप्तं त्वयाथवा । दानं दत्तं सुपात्रे वा यद्विमानाधिपोऽभवः ॥ ३२३|| मरणांतं वा त्वया क्षात्रं पातितं वा जनगृहे । अस्मिन् गात्रेऽथवा पीडा कापि सेहे त्वया प्रभो ! || ३२४|| धारातीर्थेऽथवा प्राणत्यागो हि विदधे त्वया । सत्यं वद त्वं कैः पुण्यैरस्माकं नायकोऽभवः ॥३२५॥ इतोभयोऽपि मंत्रीह वणिजः पुरवासिनः । नागाख्यं रथिकं चैव समाहूयागतोऽस्ति च ॥ ३२६ ॥ तेषामग्रेऽस्ति कथयन् चरितं शृणुतैकदा । रौहिणेयस्य पश्चात्तु यूयमुच्चलत द्रुतं ॥ ३२७॥ रौहिणेयो निशम्याथ देवीवाक्यान्यचिंतयत् । अप बुद्धिविज्ञानं किमप्यभयमंत्रिणः ॥३२८॥ चौरराजश्चंचलश्च लोकसंतापकारकः । मादृशोऽपि यदि स्वर्गं याता तद्दुर्गतौ हि कः? ३२९॥ ख्यातानि यानि वीरेण लक्षणानि दिवौकसां । दृश्यंते तानि नैतासु देवीषु हि मनागपि ॥३३०॥ आसां शुष्यति पुष्पाणि पादौ च स्पृशतो भुवं । भेषोन्मेषं प्रकुर्वाते लोचने चातिचंचले ॥ ३३१|| देवांगनाविमानादि सर्वं कृत्वापि कृत्रिमं । ज्ञातुं मम मनोवृत्तिं धृत्वानीतोऽहमत्र वै ॥३३२॥ प्रदास्याम्यहमेतासामुत्तरं रम्यमद्य वै । चिन्तयित्वेत्युवाचायं देवदेवांगनाः प्रति ॥३३३॥ वासो ममाभवद्रम्ये पुरे राजगृहे सदा । रौहिणेयाभिधानस्य प्रकृष्टव्यवहारिणः ||३३४|| श्रीवीर जिनपार्श्वेऽभून्मम चेतः सदैव हि । गमनं तत्र न प्राप्तमंतरायेण केनचित् ॥ ३३५॥ संयमोपरि श्रद्धाभूत्तपस्तप्तं सुदुस्तपं । पुनस्तस्मिन् पुरे
38CCCCCCCCCCC
॥ १९ ॥