SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ रौहिणेयचरित्रम् ॥ 888888888888 यस्याः परिमलेनाप्यचेता भवति मानवः । तत्स्नात्रमदिरावारि पायितश्चौरशेखरः ॥३०५। पिबत: स्नात्रपानीयं पांचाली तस्य सस्तके । घातं मुमोच खड्गस्य रज्जुसंचारयोगत:. ॥३०६॥ इतश्च सोऽपि मदिरापानघूर्णितलोचनः । विसंज्ञः पतित: पृथ्व्यां लोकैश्चामस्त स मृतः ॥३०७॥ हाहाकारः कृतः सर्वैलॊकस्तद्भक्तितत्परैः । अश्रुपातश्च मुमुचे तस्य शोकेन पीडितैः ॥३०८॥ अविचारपरा भूपाः कथ्यन्ते शास्त्रकोविदः । न तद्वयलीकं भवति युगान्तेऽपि महीतले ॥३०९॥ जनतेत्युक्तिवाचाला जगाम स्वस्वमन्दिरे । अभयः सज्जयाञ्चक्रे प्रासाद सप्तभूमिकं ॥३१०॥ सुधाधवलितं रम्यं चंद्रोदयविराजितं । कर्पूरागरुकस्तूरीधूपधूपितमध्यकं 0 ॥३११॥ पिहिता पट्टकूलेनाकीर्णा पुष्पोत्करेण च । मुक्ता प्रासादमध्ये च शय्यकातिसुकोमला ॥३१२॥ स्वामी जातस्त्वमस्माकं 0 कैः पुण्यैस्त्रिदिवेऽत्र भोः । विहितं जन्मनि प्राच्ये स्वं पुण्यं वद नः पुरः ॥३१३॥ शिक्षामेवंविधां दत्त्वा चतम्रश्च वराजनाः ॐ । मालाङ्कितकरा मुक्ताः शय्यापादचतुष्टये ॥३१४॥ गीततालानुमानज्ञः प्रवीणो नृत्यकर्मणि । गान्धर्वादिः समग्रोऽपि सम्प्रदायो व्यमोचि च ॥३१५॥ इत: से मदिरापानेनोन्मत्तो रौहिणेयक: । स्वापितस्तत्र शय्यायामुत्पाट्याभयमंत्रिणा ॥३१६॥ गतेऽथ मदिरोन्मादे सचेताः सोऽभवत्क्षणात् । तुल्यं सुरविमानेन गृहमैक्षिष्ट सुंदरं ॥३१७॥ स्त्रियो विलोकिता देवीसन्निभा रूपबंधुराः । । नरा देवोपमा रूपसौन्दर्यगुणशालिनः ॥३९८॥ अस्मिन्नवसरे देव्यः कृत्रिमाः पुष्पस्त्रग्धराः । ऊचुः पुरः समागत्य प्रौढेन ध्वनिना तकं ॥३१९॥ स्वर्गोऽयं पंचमः स्वामिन् ! विमानं सर्वसुंदरं । तस्याधिपत्यं संजातं तव पुण्यप्रभावतः ॥३२०॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy