________________
MERELESEARTERESEASESS
सा मोहं केनापि जनमानसे । उपायने समानीता सायाता मन्त्रिणः स्मृतौ ॥२९०॥ मन्त्रिणानायिता संसन्मध्ये सा दीपधारिका छ । चौरसंहारिणी नाम्ना खड्गखेटकधारिणी ॥२९१॥ आनीतायां च तस्यां हि चौरमुचे स धीसखः । कुरु त्वमस्या देव्या 0
भोः प्रणतिं भक्तिनिर्भरः ॥२९५॥ चौरो भविष्यसि त्वं न चेत्साधुश्च भविष्यसि । ग्रहीष्यति तदा नाम तवाप्येषा न संशयः ॥२९३॥ रौहिणेयस्तदोवाच मंत्रिणं शृणु धीसख ! । मुक्त्वा जिनमहं नान्यं नमामि स्थिरमानसः ॥२९४॥ लोकं माभय ! पश्य त्वमात्मना सद्दशं समं । त्वं मंत्रींद्रो नरेन्द्रस्य मिथ्यात्वस्य समाश्रयः ॥२९५॥ अग्रेऽपि हि त्वया यक्षः पूजितोऽसंख्यमानवैः । अग्रेभवन्ननाचारं श्राद्धैः कारयसि त्वकं ॥२९६॥ नित्यं स्वलक्षणैरेभिः शुद्धसम्यक्त्वधारिणं । तथा
श्रीवीतरागस्य भक्तं भाणयसि स्वकं ॥२९७।। कुर्वेऽस्या: शपथं नाहं श्रावको जातु. निश्चयात् । इत्युक्त्वा चिंतयित्वा • च पुनराह स तस्करः ॥२९८॥ शपथांश्चेत्करिष्यामि चाग्रहात्तव संप्रति । आलोचनां ग्रहीष्यामि पुनः सुगुरुसन्निधौ ॥२९९॥ ॐ 2 चिरं तेऽहं सहिष्यामि कोपं मरणकारकं । लगिष्ये न पुनर्देव्याः पादयोमंत्रिसत्तम ! ॥३००॥ दुष्प्रापं भवलक्षेऽपि सम्यक्त्वं
याति येन मे । प्राणत्यागेऽपि सचिव ! विधास्यामि हि तन्न हि ॥३०१॥ श्रुत्वेति वाक्यं चौरस्य मुमदे श्रेणिको नप साधर्मिकोऽयं मंत्रिन् ! मे चौरो न घटते ह्यसौ ॥३०२॥ संसत्समक्षं चौर: स पुनरूचेऽतिनिर्भयः । जनानां पश्यतां मंत्रिन्नृतं मां कुरु वानृतं ॥३०३।। इत्युक्ते पूजिता तूर्णं पांचाली मंत्रिणा सुमैः । अतीवरम्यमदिरावारिणा स्नापिता स्वयं ॥३०४॥
DELETERELETELLESSES
॥ १० ॥