________________
रौहिणेयचरित्रम् ॥
38688€€€€€€€€€€€€€€
विश्रामो ह्येष ते पुरे ||२७४॥ | यो न जानाति देवेभ्यो मानवोऽर्चितुमार्जवात् । न जानात्यथवा कर्तुं सेवां वो भद्रकत्वतः ॥२७५॥ ं न चायात्यथ युष्माकं बुद्धौ यो दक्षतागुणैः । स सर्वो घटते चौरः किं मंत्रिन् ! पुरमध्यतः ॥२७६॥ युग्मम् ॥ रौहिणेयममुं मुंच भद्रकं व्यवहारिणं । अथ चेन्नो चलिष्यामस्तद्वयं भवतः पुरात् ॥ २७७॥ जनवाचं निशम्येत्यभयः प्राह विषण्णधीः । भग्ना वयं गृहीत्वामुं जना ! व्रजत सत्वरं ॥२७८॥ रौहिणेयो बभाणैवं किं यात्वा क्रियते गृहे । कलंकं मेऽपनयामुं सत्यं वासत्यमद्य भोः ॥ २७९ ॥ आकर्षयामि भुजगं फटाटोपोत्कटं घटात् । गृह्णामि गोलमयसोऽग्नितप्तं दक्षिणे करे ॥२८०॥ खदिरांगारपूर्णे वा कुंडे झम्पां ददाम्यहं । स्वीयनिर्मलभावत्वाद्विषं खादामि वोल्बणं ॥ २८१॥ सकलस्यापि देवस्य पिबामि कोशमादरात् । निजमेवं प्रकारेण कलंकमपनयामि भोः ॥ २८२॥ हसित्वाथाभयोऽवादीज्जाने त्वच्चरितं समं | अग्निना दह्यसे नैव त्वं न सर्पैश्च खाद्यसे ||२८३ ॥ न बद्ध्यते भवान् पाशैर्विषं न प्रक्रमेत्तव । निःशूकत्वाच्च धैर्यान प्रभवंति सुरा अपि ॥ २८४॥ | मंत्रप्रभावतो नीरं करोति शिखिनं भवान् । शपथं तं कुरुष्व त्वं यमहं कारयामि भोः ॥२८५॥ ओमुक्ते रौहिणेयेन तदैका दीपधारिका । पुंसा कलावतैकेन निर्मिता बहुयत्नतः ॥ २८६॥ बहुदोरकसंचारैर्विस्मापितबहुप्रजा । मनोज्ञरूपसंयुक्ता भूषणैश्च विभूषिता । २८७॥ पिनष्टि दन्तान् सैकस्य दोरकस्य हि चालनात् । केनापि दौरकेणैषासिप्रहारं विमुञ्चति ॥२८८॥ यन्त्रेणैकेन सा नृत्येत् केनापि कुरुते स्मितं । केनापि रुदितं कुर्यात् केनाप्युत्फुल्ललोचना ॥ २८९ ॥ उत्पादयति
CCCCCCCCCCCCCCCCCCC