________________
88888888€€€€€€€€€€€
कृत्वा वरं लात्वाश्वरूपेणैष नष्टवान् ॥२५८॥ जिनपूजां कुर्वतो मे समागाज्जिनमन्दिरे । निषेधिकामकृत्वैव प्राविशच्चैत्यमध्यतः ॥२५९॥ परितः समवसृतिं नादादेष प्रदक्षिणां । योग्योऽसौ दक्षिणायाश्च तदा ज्ञातं मया स्फुटं ॥ २६०॥ श्रेणिकोऽपि तदोवाच जैनं जयति शासनं । विवेकविनयाचारविचारगुणमंडितं ॥ २६९ ॥ तेजोमया हि सर्वेऽपि ग्रहनक्षत्रतारकाः । न सूर्येण समोऽप्येको वर्ण्य कोविदैर्यथा ॥ २६२ ॥ तथा जगत्यां सर्वेऽपि सन्ति धर्मा मनोहराः । न जैनधर्मतुल्योऽस्ति कोऽपि धर्मो जगत्त्रये ॥२६३॥ गणेशं कथयित्वापि तित्तिरं जिह्वया स्वया । हत्वा खादंत्यहो मूर्खा मिथ्याधर्मरता नराः || २६४॥ | अथवा नागपंचम्यां नागमर्चति गोमयं । प्रस्फुरन्तं चलन्तं च प्रत्यक्षं घ्नन्ति भोगिनं ॥ २६५ ॥ जिनधर्मपरित्यक्ता ब्रुवन्तः परटा इति । बब्बूलफलिका बह्वीर्भक्षयंत्यविवेकिनः ॥२६६ || जिनधर्मविहीना ये मानवा: स्युर्महीतले । ते देवगुरुपूजायाः समाचारं विदन्ति न ॥ २६७॥ अतः श्रीमन्महावीर ! विवेकविनयान्विते । मतिः स्फुटा जिनधर्मे मम भूयाद्भवे भवे ॥ २६८ ॥ भूपालमंत्रिणोर्वाक्यमेवमुक्तं शृणोति सः । अमिलन्नागरो लोकस्तं निरीक्षितुमाकुलः ॥ २६९ ॥ अवदत्सकलो लोक एकवाक्येन वीक्ष्य तं । एतं कथं रुद्धवांस्त्वं मंत्रीन्द्र ! वद सत्वरं ॥ २७० ॥ रौहिणेयोऽभिधानेन रमाक्रीडानिकेतनं । प्रसिद्धः पुरवासिभ्यः सभ्यलोकसुरद्रुमः ॥ २७९॥ दत्ते क्रीणाति वा स्वर्णकोटिमेष नरोत्तमः । शुल्कहट्टे ददात्येष द्रव्यलक्षं न संशयः ॥ २७२॥ वणिक्पुत्रा घनाः सन्ति भूपास्य व्यवहारिणः। संप्रेष्यतां निजा दूतास्तानाकारयत द्रुतं ॥ २७३ ॥ परोपकारी पुण्यात्मा पापदोषविवर्जितः। दुर्बलानामनाथांनां
CCCCCCCC€€€€€€€€€33
॥९॥