SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 99999999999999999 वीक्ष्यतां ॥२२७॥ संग्राम मयका साकं कृत्वा बध्नीत मां समे । अन्यथा शीर्षमाच्छाद्य यात गेहे स्वके स्वके ॥२२८॥ चलेन्न स्थानकादेष घातं मुंचामि यं प्रति । इत्युक्त्वा स्तंभितस्तेन तस्करेण परिग्रहः ॥२२९॥ शस्त्राणि हस्ततस्तेषां सर्वेषां चौरराट् तदा । आदत्ते स्म चालंकारसंघातं च तदंगतः ॥२३०॥ विधाय जननीशिक्षामेवं तस्करशेखरः । वितीर्य मौक्तिकं हारमभयं च नमोऽकरोत् ॥२३१॥ जगाद चैवं मंत्रींद्र ! त्वं कल्पतरुसन्निभः । अहं करीरतुल्योऽस्मि का स्पर्धा मे त्वया सह ? ॥२३२॥ पुनर्मुख्यः प्रधानेषु त्वमेव मतिवैभवैः । तवैव शस्यते बुद्धिः सकलेऽपि जगत्रये ॥२३३॥ अहं प्रतिदिनं नत्वा त्वां करिष्यामि भोजनं । भवत्पादावप्रणम्य नियमो भोजनस्य, मे ॥२३४॥ उपलक्षसि मां चौरं यदा मंत्रींद्र ! लक्षणैः । मरणांतं तदा स्तैन्यं त्यक्ष्याम्येव न संशयः ॥२२॥ हसित्वोवाच सचिवस्त्वं मया देहलक्षणैः । लक्षितश्चौरराजाथ का मतिस्त्वत्परीक्षणे ? ॥२३६॥ सत्यप्रतिज्ञश्चरेंद्र सत्यवाचा युधिष्ठिरः । स्वयं मुखेन यत्प्रोक्तं तत्पाल्यं वचनं त्वया है ॥२३७॥ चौरेण भणितं मंत्रिन् ! वागस्माकं हि तादृशी । पृथिव्यां याद्दशो मेरुर्लाहरेखा च याद्दशी ॥२३८॥ शतानीकसुतो ७ ॥ नाहं चंडप्रद्योत एव वा । ययोः कूटं विधाय त्वं मतिमानभवो भुवि ॥२३९॥ रात्रिरद्यापि बहुला विनिर्जित्य परिग्रहं । जगाम निजमावासं सुखेनापि स तस्करः ॥२४०॥ त्यक्तं सर्वमपि स्तैन्यं दयायां स्थापितं मनः । नानाप्रकारै रमते मध्ये राजगृहं पुरं ॥२४॥ वाचां बंधे स्थितश्चौरशेखरः सोऽनुवासरं । निरीक्षितं विना भुक्ते नैव ह्यभयमंत्रिणं ॥२४२॥ ॥८ ॥ ®®®®
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy