SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ रौहिणेयचरित्रम् ॥ B888888888888888888 तेन नग्नीकृतो वरः । दंडपाशिकगेहस्य गवाक्षेऽमोचि भीतिभाक् ॥२११॥ कस्मादपि समाचारं ज्ञात्वा स्वीयाप्तमानवात् । जवात्परिग्रहेशेनावेष्टयतारक्षकगृहं ॥२१२॥ अहं गवाक्षमध्येऽस्मि शिखिनं कोऽपि मास्यतु । इति प्रोक्ते वरेणापि महान् कोलाहलोऽजनि ॥२१३॥ निःश्रेणिं मंडयित्वोच्चैः परिग्रहपतिः स्वयं । वरमुत्तारयांचक्रे देहक्षेमं च पृष्टवान् ॥२१४॥ बंद गृह्णात्यसौ दंडपाशिक: पुरमध्यत: । प्रदास्यामो वयं मानममुष्यातीवमंजुलं ॥२१५॥ तस्मिन्नवसरे मंत्रिसमीपे दंदपाशिक: | अभूत् कोलाहलं श्रुत्वा साभयो गृहमाययौ ॥२१६॥ अभयस्तान् जगादैवमत्र किं यूयमागताः? । लुटाका इव किं गेहं लुटिष्यथ बलोत्कटाः ॥२१७।। कुत्र यूयं च कुत्रैषं पार्श्वेऽभून्मम सांप्रतं । एष एवास्ति किं लब्धो युष्माभिः पांडवैरपि ॥२१८॥ त्वं चेद्रक्षसि तद्रक्ष बन्दग्राही पुनस्त्वसौ । अस्य गेहे वरो लब्धः प्राहुरेवं च ते भेटाः ॥२१९॥ परिग्रहपतिःप्रोचे शृणु वाक्यं ममाभय ! । साक्षिणो न भवंत्यक्ष्णोः कदापि जगतीतले ॥२२०॥ बंदग्राही चौरराजोऽन्यायवान् जनवंचक: । एक एव तलारक्षो नास्ति कोऽपि पर: पुरे ॥२२१॥ मुषितं पत्तनं सर्वमनेनैव च मायिना । पक्षपातं करोषि त्वमस्य द्रविणलोभतः ॥२२२॥ अंगारदृष्टिश्चंद्राच्येत्तमसः प्रसरो रवे: । हुतभुक्संभवो नीरात्तवः किं क्रियतेऽभय ! ॥२२३॥ त्वत्तोऽप्यन्यायवृत्तिश्चेत्तत्को न्यायकरः क्षितौ? । वृतिश्चेचिर्भटान्यत्ति ततः किं क्रियतेऽभय ! ॥२२४॥ अन्यायिनमिमं चेत्त्वं मंत्रिन् ! जुगुप्ससेऽधुना । पश्चादपि हि हत्वान्यराज्ये यास्याम्यहं ध्रुवं ॥२२५॥ एवं विवादे संजायमानेऽसौ चौरसत्तमः । व्यक्तिभूय बभाणेत्यभयं मंत्रिमहत्तमं ॥२२६॥ मयारक्षकरूपेण प्रजहेऽसौ वरोत्तमः । मयैवाभरणान्यस्येमानि लातानि eeeeeeee8888
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy