________________
888888888888888888
G युष्माभिर्न विधातव्यः कलिस्तावत्सभांगणे ॥१६५॥ आरक्षको गृहे यातो वाक्येनाभयमंत्रिणः । गृहिण्या भणित: स्वामिन् ।
किमर्थं ! गहमागतः ॥१६६॥ तुरंगस्य मिषेणैतैः पांडवैस्तव मन्दिरं । लुटितं सकलं नास्ति तद्यद्दन्तेषु दीयते ॥१६७॥ पाण्डवान् धृत्वा हन्म्यद्य सकलान् निशितासिना । ययौ तुरंगशालासु तलारक्षौ भणनिति ॥१६८॥ रे रे चौर ! तलारक्ष ! तिष्ठस्माकं पुर: स्थिरः । एवं ब्रुवन्त: शस्त्राण्यादायोत्तस्थुश्च पांडवा: ॥१६९॥ रे वराक ! भवान् दासस्ते चामी पांडवा वयं । जगत्त्रयेऽपि विख्यातं विहितं भारतं हि यैः ॥१७०|| कुर्युः शस्त्राणि झात्कार पक्षयोरुभयोरपि । अभयो धीसखो भूयः कुरुते स्म निवारणं ॥१७१॥ तेषां प्रतिभुवो गृह्णन् मंत्री कलिकृतौ पुनः । चौरं न वीक्षते क्वापीत्यधर्षदंडपाशिकं । ॥१७२॥ कोलास्थानं समासीनो मूर्छयोश्च वलं क्षिपन् । आरक्षको जनश्चास्ति तस्करोऽपि पुरः स्थिति: ॥१७३|| चेच्चटिष्यति
हस्ते में कथमप्येष तस्करः । व्यपोहिष्यामि तद्रोपं भव्यरीत्या स्वचेतसः ॥१७॥ स नातिष्ठत्पापमतिलँटितेन गृहेण मे 60 । वैरं तु कारयामास मयका सह पांडवैः ॥१७५॥ एवं विभाषमाणं तं निरीक्ष्य जनताग्रतः । रौहिणेयो जहासोच्चैरुदडीयत ४
पक्षिवत् ॥१७६॥ जगृहे गच्छता तेन तलारक्षकमस्तकात् । पट्टकूलं च भूपेन प्रदत्तं शीर्षवेष्टनं ॥१७७॥ प्रासादशृंगमारुह्य बभाषेऽथातिनिर्भयः । विभाषसे किं वराक ! जातं स्थाम मया तव ॥१७॥ तव खडगं मया छिन्नं अग्रेऽपि तव हस्ततः । मयैव पातितं क्षात्रं मंदिरे तव कातर! ॥१७९॥ हृत्वावं पांडवैर मयैव तव कारितं । सम्प्रत्येवोत्तरीयं ते
॥
॥