________________
रौहिणेयचरित्रम् ॥
BBBBBBBBBBBBBBBBBBB
प्रकारैः सकलैरर्जयच्च घनं धनं ॥१४९॥ उत्तीर्णा चौरिका चित्ताद्वाणिज्ये ललगे मनः । वाणिज्येनाय॑ते यत्स्वमन्योपायैर्घनैर्न तत् ॥१५०॥ लाभलोभेन वाणिज्यं एवंकुर्वनिरन्तरं । बहूनां स पिपर्ति स्म रौहिणेयो मनोरथान् ॥१५१॥ गतेषु षट्सु मासेषु स्तैन्यसंस्मृतिकारकाः । अमिलन् कथयाञ्चक्रे तैश्चारक्षकचेष्टितं ॥१५२॥ त्वयका चौरिकात्याजि निश्चिन्तो दंडपाशिक: । चौरघरट्टमात्मानं कथयत्येष बन्दिभिः ॥१५३॥ रौहिगेयो निशम्येति ध्यातवान्मानसे निजे । यावदेतान् दिनान् सेहे अद्यपश्चात्तु नो सहे ॥१५४॥ आरक्षकस्याद्य मया गेहद्वारं नवं निशि । कर्त्तव्यमिति स ध्यात्वा प्रेषयामास तान्नरान् ॥१५५॥ आरक्षकगृहे क्षात्रमर्धरात्रे प्रदाय सः । सर्वस्वं जगृहे शीघ्रं मुक्तं यात्वा स्ववेश्मनि ॥१५६॥ श्रेणिकस्याश्वरत्नं चापहृत्यातीववेगतः । बिभत्सते स्म तत्क्षात्रद्वारे चौरावतंसकः ॥१५७॥ गत्वा जागरयामास पांडवांश्चापि यामिकान् । उत्तिष्टतार्थयत भोस्तुरंग दंडपाशिकं ॥१५८॥ यामिकाः सहसोत्थायानिरीक्ष्यपि च वाडवं । पदं निरीक्षितुं लग्नाः कृत्वा दीप्रप्रदीपिकाः ॥१५९॥ आरक्षकगृहेऽगच्छत् पदस्तुरगसंभवः । कोलाहलं प्रकुर्वाणा मिलिता अश्वयामिकाः ॥१६०॥ एतावतापि ग्रासेनामुष्य वाञ्छां न पूर्यते । ततो हरति भूपस्याश्वरत्नमिति वादिभिः ॥१६१॥ सुप्तश्चतुरके दंडपाशिकस्तैः क्रुधोद्धतैः । धृतस्तत्रैव तुरगेऽश्ववारश्च कृतो द्रुतं । ॥१६२॥ प्रभाते पुरतो राज्ञः स चानीयत । पांडवैः । यथा रजोत्सवे लोकैरजोत्सवनरेश्वरः ॥१६३॥ सचिवेनाभयेनोचे न चौरो घटते ह्ययं । विचारयोग्यं किमपि कारणं स्थूलमस्ति भोः! ॥१६४॥ यावत्तत्कारणं वेद्मि नाहं सम्यक् प्रकारतः।
BBBBBBBBBBBBBBBBBBB