SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 88888888888888888SKA शारदपूर्णिमाचंद्रवक्त्रविस्मापितव्रजः । तिलप्रसूननाशश्च खंजरीटोपमांबकः ॥१३३॥ वाक्यपीयूषकुंडाभवक्त्रपार्श्वस्थितेन च । पन्नगाकृतिना वेणीदंडेनापि विराजितः ॥१३४|| सांप्रतं चौरमुख्योऽयं पश्चात्पुण्यवतामपि । राजतेऽतीव पुंड्रेण भृशं संशोभितालक: ॥१३५।। दाडिमीफलबीजाभदंतश्रेणिमनोज्ञवाक् । कंबुग्रीव: पीवरांस: पृथुवक्षाश्च सत्ववान् ॥१३६॥ युगोपमभुजः शंखचक्रांकितकरद्वयः । कुलिशाकृतिमध्यश्च रौहिणेयो प्रसन्नधी: ॥१३७।। गूढगुल्फो मृगजंघ: पद्माकृतिपदद्वयः । गुंजापुंजप्रभापूरविराजितनखक्रमः ॥१३८॥ सुवेष: सरल: शांत: सुप्रसन्नः सदाकृतिः । शौंडीर: साहसी शूरः समर्थः समरेऽभयः ॥१३९॥ रागज्ञो रूपवान् रम्यरामारागनिकेतनं । रौहिणेयोऽरातिजेता पुरे राजगृहेऽविशत् ॥१४०॥ नवभिः कुलकं ॥ क्रीतं द्रव्येण धवलगृहमेकं मनोरमं । सुधाधवलितं सप्तभूमिकं भूरिभूषणं ॥१४१॥ वृद्धा तत्र युवत्येका क्षामकुक्षिर्बुभुक्षया । प्रतिपन्नांबिकात्वेन कृता च गृहरक्षिका ॥१४२॥ वैभारपर्वते पूर्वपुरुषोपार्जितं धनं । कत्यप्यानाययामास स्वर्णरूप्यादिकं रहः ॥१४३॥ वाणिज्यं मंडितं तेन द्रव्येण प्रकटं पुरे । अमंडयच्च स द्रव्यहीनान् दत्त्वा निजं धनं ॥१४॥ वाहनानि च पूर्यन्ते शतसंख्यानि सागरे । प्रयान्ति दिक्षु सर्वासु वस्तुपूर्णान्यनांसि च ॥१४५॥ सितोदरेणेव तेन जनतानां यदृच्छया । लक्षसंख्यानि दीयंते व्याजेन द्रविणानि च ॥१४६॥ दुःखान्यनाथदःस्थानां दीर्यते तेन हेलया । वैरिणोऽपि हि रक्ष्यते राज्ञच शरणागताः ॥१४॥ दीयन्ते चार्थिसार्थेभ्यः पट्टकूलतुरंगमाः । दारिद्यं निर्धनानां च दीर्यते धनदानतः॥१४८।। व्यवहारी रौहिणेयः ख्यातोऽभूदिति तत्पुरे । इत्थं . 8888888888888888888SKSEBE
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy