________________
888888888888888888K
ॐ जनः । स उड्डीय ततः स्थानान्महिषी वाटकान् ययौ ॥१०॥ तद्रुपं सहसा दृष्ट्वा पुरसंकीर्णस्थानके । महिष्यो युगपत्त्रस्ताः ।
प्रौढनादभयाकुलाः ॥१०३॥ ये येऽभवन्महिषीणां वाटकास्तत्र सोऽगमत् । अन्वेति कांदिशिकाश्च ता रटन् पुरमध्यतः ॥१०४॥ पुरमध्येऽतिसंकीर्णे महिषीपातिताज्जनात् । घाटीपातादपि प्राज्योऽभवत्कोलाहलो महान् ॥१०५॥ तदा श्रीश्रेणिकक्ष्मापोऽभवद्वातायनस्थितः । तदोष्टोऽपि समायातोऽनुव्रजन्महिषीव्रजान् ॥१०६॥ महिषीस्वामिनोऽपीयुस्तत्र श्वाससमाकुला:
। आरक्षकोऽस्ति तन्मध्ये मुख्योऽसिव्यग्रहस्तकः ॥१०७॥ त्यक्त्वोष्ट्ररूपं सहसाच्छिद्यारक्षकरादसिं । अभजद्रौहिणेयः सोऽद्दश्यभावं • क्षणादपि ॥१०८॥ तत्रेति क्रीडतस्तस्य भानोरप्युदयोऽभवत् । स तिष्ठन् जनमध्येऽपि न कैश्चिदपि बुध्यते ॥१०९॥ क्रीडत 9 रौहिणेयेन कलितोऽभयमंत्रिराट् । नालक्षि त्वभयेनाथ रौहिणेयः स चौरराट् ॥११०॥ अध्वानो महिषीरुद्धा मर्त्यकोटिसमाकुला:। ७
न कोऽपि तेन कुत्रापि गंतुं क्रममपि क्षमः ॥१११॥ गच्छता तेन चरिण प्रणम्याभयमंत्रिणं । ऊचे लोकोऽल्पमपि में
मा करोतु भयं स्फुटं ॥११२॥ राजानं राजपुत्रं च मंत्रिणं दंडपाशिकान् । नटिष्याम्यनिशं रात्रौ रात्रावागत्य लीलया ॥११३॥ * इत्युक्त्वा स ययौ तेषां पश्यतामपि चौरराट् । जग्मिवान् कोऽपि न पृष्ठे सर्वकोऽपि जिजीविषुः ॥११४॥ पिधाय कर्णी
पाणिभ्यां तातादेशं प्रमाणयन् । वीरसमवसरणं दृष्ट्वा चात्युत्सुकोऽचलत् ॥११५॥ चरणे चरतस्तस्य तीक्ष्णो भग्नश्च कंटक: । शशाक तेन नो गन्तुं स एककमपि क्रमं ॥११६॥ एकेन पाणिना कर्ण पिधाय त्वरितं ततः । द्वितीयेनोद्दधारासौ
॥४
॥
SBIBEKSIBIBISTRIBR