________________
02020a
99999DE
रौहिणेयचरित्रम् ॥
2201
॥८६॥ अर्जयिष्यसि यद्व्यं त्वमाशा तस्य कीद्दशी । ग्रासाः पितामहस्यापि यद्ययुर्जीवतस्तव ॥८७॥ तव स्थाने न किं जाता पुत्र्येका प्रियलक्षणा। वंद्या बभूव किं नाहं त्वया पुत्रेण को गुणः ।।८८॥ स्वमातृवचनैरेवं प्रोत्कृष्टश्चौरविद्यया। प्रमोदभाक्रौहिणेयश्चिंतयामास चेतसि ॥८९॥ अजातेनाथ जातेन तेन पुत्रेण को गुणः? भूनरैर्यस्य तातस्य जीवतोऽपि हि गृह्यते ॥९०॥ अहं पुत्रो जीवतो मे वप्नुासोऽखिलो ययौ । ब्रूते न्यायेन मातासौ दोषोऽस्याः कोऽपि न ध्रुवं ॥११॥ ध्यात्वेति नि:ससारासौ क्रीडां कुर्वन् गुहागृहात् । लघूष्ट्ररूपं चक्रे च मंत्रश्क्त्या महत्तरः ॥९२॥ पुरप्रतोलीमारुह्य चिरं स्थित्वोष्ट्ररूपभाक् । प्रौढप्रासाद आसीनो गीतं गायति निर्भर
॥९३॥ गीतमध्ये वदत्येवं रे प्राहरिक ! जाग्रहि चिंतय श्रीहरं चौरं पुरमध्ये समागतं ॥९४॥ यो रौप्यखुरपुत्रोऽभूच्चौरो लोहखुराह्वयः 0 । तत्पुत्र उष्ट्ररूपोऽहं चौरविद्याबलोत्कटः ॥१५॥ लुप्ता यैर्मत्पितुसा रासकान् दापयंति ते.। अभ्यासा अस्मदंगेऽष्वन्यायस्यैव स्वभावतः
॥९६॥ पुरमध्येऽधनो लोको नि:श्वासांस्तु विमुंकनि । भूपतेः सकलो दोक. सोऽभययापि मंत्रिणः ॥९७|| मां मा जानीत करभमहं तस्करशेखरः । वैभारगिरिवास्यस्मि बहुसंतापकारकः ॥९८॥ लुप्यते प्राशनं यस्य जीवतोऽनुक्रमागतं । तदीयवदनं दृष्ट्वा जलं पिबति क: क्षितौ? ||९९॥ ज्ञास्यते सकला बुद्धिरभयस्यापि मंत्रिण:। राज्ञः परिच्छदस्यापि शक्तिः स्थाम च सांप्रतं ॥१००॥ इत्यर्थगर्भ तद्वाक्यं सर्वे शृण्वन्ति मानवाः । प्रदीपदीप्रधवलगृहे राज्ञश्च वल्लभाः ॥१०१॥ शनैः शनैस्तं परितोऽमिलच्च बहुलो
SSSSSSSSSS
CSSSSSS=c888