SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ रौहिणेयचरित्रम् ॥ 3333 సిలిలిలిలిః हि ममोपरि ॥५६॥ रौहिणेयस्य वाक्यानि श्रुत्वेति मुमुदेतरां । पुत्रं लोहखुरो दोर्भ्यामालिलिंग पुनः पुनः ॥५७॥ हृष्टश्चित्ते पुनः प्रोचे चौरराट् निजमात्मजं । शिक्षामेकां वत्स ! कुर्यास्त्वं मे कुलहितावहां ॥५८॥ धर्मधूर्तो धरापीठे श्रीवीरो विश्वविश्रुतः। स्वर्णरत्नरौप्यमयं कुर्याद्वप्रत्रयं सदा ॥ ५९ ॥ तत्रागतांश्च विश्वस्तान् सर्वजातिसमुद्भवान् ॥ किंचित्किंचित् समाख्याय स जनान् विप्रतारयेत् ॥६०॥ ते विप्रतारितः संतस्त्यक्त्वा जायांगजानपि । भवेयुः सर्वविषयव्यापारेषु पराङ्मुखाः ॥६१॥ तल्लक्ष्मीग्रहणे लोभं मा कार्षीस्त्वं मनागपि । ग्रहीतुं शक्यते कैश्चिद्वयक्तापि न हि सा जनैः ॥६२॥ अंधीभवेः सदापि त्वं वत्स ! तन्मुखवीक्षणे । तद्वचः श्रवणेऽकर्णस्त्वं चेद्भक्तः पितुरथ ॥६२॥ कार्येऽमुष्मिन् वचोबंधं विधेहि मयका समं । तातादेशः प्रमाणं मे रौहिणेयोऽप्यदोऽवदत् ॥ ६४ ॥ कियद्भिर्वासरैर्लोहखुरः पञ्चत्वमाप्तवान् । ग्रासास्तथैव ते तस्य समायान्ति गुहागृहे ॥६५॥ ये चौरा रौहिणेयस्य सन्त्यन्ये परिपन्थिनः | चौरपञ्चत्ववार्तां तेऽभयं लेखादजिज्ञपन् ॥ ६६ ॥ लेखमध्येऽस्ति लिखितं ज्ञातास्माभिर्मतिस्तव । तदात्मजस्य शावस्य यद् ग्रासं यच्छसि स्वकं ॥ ६७ ॥ वैद्यैश्चिकित्स्यमानोऽस्ति स्वामी वो रोगपीडित : । तेन स्थ यूयमाहूतास्तत्र च व्रजत द्रुतं ॥६८॥ आगच्छत पुनर्यूयं जाते तस्मिन्निरामये । मृते पुनर्नवं ग्रासं करिष्यति च वो नृपः ॥६९॥ ज्ञात्वा लेखसमाचारमभयेनेति वाक्यतः । जना लोहखुरस्याथोत्थापिताः शुल्कहट्टतः ॥७०॥ ते गत्वा कंदराद्वारे निखिलाः खिन्नमानसाः । रोहिण्यपि रुरोदोच्चैर्विक्ष्य तांश्च समागतान् ॥ ७१ ॥ रौहिणेयप्रसूः स्थित्वा रुदन्ती तानभाषत । I IIIIIIIIII
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy