________________
SEBEBEBESESSEDEBEMEMEBEBESCH
॥ इति श्रीसम्यक्त्वे संप्रतिनरेशकथा | श्रेयोऽस्तु ॥
पीयूषोदरसोदरैर्जलभरैः पुष्णन्तु वार्दा धरां, नित्यं नीतिपरायणा नृपतयो भूमीमिमां बिभ्रताम् । धात्री धान्यवती भवत्वनुदिनं लक्ष्मीर्जनानां गृहे, श्रेयः श्रेणिनिकेतनं विजयतां श्रीजैनधर्मः सदा ॥१॥ सूर्याचन्द्रमसौ प्रदक्षिणयतो यावत् सुवर्णाचलं, यावच्छ्रीजिनचैत्यमण्डनवती सर्वंसहा राजते । तावत् संप्रतिभूपतेर्विजयतां सम्यक्त्वपूतात्मनः, सम्यक्त्वप्रतिबोधकारि भविनामेतच्चरित्रं क्षितौ ॥२॥
SE
॥ १६ ॥