________________
॥१५॥
संप्रतिनृपतिचरित्रम् ॥
बभाषे नो विसंभोगः, परस्परमत; परम् ।।४४७॥ सदृक्कल्पसदृक्छन्दैः, सम्भोग: साधुभिः सह । विपरीतस्वरूपत्वात्, त्वमस्माकं पुनर्बहिः ॥४४८॥ भीत: सुहस्त्यपि ततो, वन्दित्वाऽऽर्यमहागिरिम् । ऊचे विनयनम्राङ्गः, कम्पमानकराञ्जलिः ॥४४९॥ अपराध क्षमस्वैक-मपराधवत: प्रभो ! । अपुन:करणेनाऽस्तु, मिथ्यादुष्कृतमत्र मे ॥४५०॥ महागिरिस्तत: स्माह, दोषः कोऽत्र तवाथवा ।। इदं प्रोवाच भगवान्, वीरस्वामी स्वयं पुरा ॥४५१॥ इहास्पाकीनसन्ताने, स्थूलभद्रादत: परम् । पतत्प्रकर्षा साधूनां, समाचारी भविष्यति ॥४५२॥ तस्माच्चानन्तरावावामेव तीर्थप्रवर्तकौ । अभूव तदिदं स्वामिवच: सत्यापितं त्वया ॥४५३॥ इत्युदित्वा तमाचार्य, सद्भावक्षमितागसम् । पुन: साम्भोगिकं चक्रे, गुरुरायमहागिरिः ॥४५४॥ उक्तश्च संप्रतिरपि, महाराज ! न कल्पते । सुसाधूनां राजपिण्डो-ऽनेषणीयो विशेषतः ॥४५५॥ निषियो भरतस्यापि, राजपिण्ड: पुरा किल । श्रीयुगादिजिनेन्द्रेण, स्वयमिन्द्रादिसाक्षिकम् ॥४५६॥ दानपात्रं च तस्यापि, श्रावकश्राविकाजनः । स्वामिनाख्यायि तद्वत्स, गच्छ त्वमपि तत्पथम् ॥४५७॥ अनुशास्तिं गुरोस्तां स, निर्वृत्ते: पदवीमिव । आदाय परमानन्द-मनो धर्ममपालयत् ॥४५८॥ आर्यानार्येषु देशेषु, हृदयस्थानके नृणाम् । स्वामाज्ञामिव सम्यक्त्व-मुवापावर्द्धयच्च सः ॥४५९॥ श्रीसंप्रतिः क्षितिपतिर्जिनराजधर्म, सम्यक्त्वमूलममलं परिपाल्य सम्यक् । भुक्त्वा दिव: श्रियमथानुपमामनर्थ्यां, मुक्तिं गमिष्यति शुभैकमति: क्रमेण ॥४६०॥ सम्यक्त्वरलं तदिदं विशुद्धमासाद्य युष्माभिरपीह भव्याः । स्वपुत्रवन्निर्मलचित्तरङ्गः, पाल्यं सदा निर्वृतिमाप्नुकामैः ।।४६१||