________________
संप्रतिनृपतिचरित्रम् ॥
- प्रवर्तयत्त्वेनं, लोकद्वयसुखावहम् । स्वस्वदेशेषु सर्वत्र, प्रीतिरेवं यतो मम ॥४१६॥ ततस्तेऽपि गतास्तत्र, जिनचैत्यान्यकारयन् । कुर्वते ।
तत्र यात्राश्च, रथयात्रोत्सवाद्भुताः ॥४१७॥ सदैवोपासते साधूनमारि घोषयन्ति च । राजानुवृत्त्या तत्रापि, लोकोऽभूद्धर्मतत्परः ॥४१८॥ ततश्च साधुसाध्वीनां विहां साधुचर्यया । प्रत्यन्ता अपि देशास्ते, मध्यदेश इवाभवन् ॥४१९॥ अन्यदा संप्रतिर्दध्यौ, साधवो विहरन्ति । चेत् । अनार्येष्वपि देशेषु, स्यात्तल्लोकोऽपि धर्मवित् ॥४२०॥ अथानार्यानपि नृपानादिदेश विशांपतिः । करं यूयं ददध्वं मे, यथा गृह्णन्ति मद्रटाः ॥४२१॥ ततोऽनुशिष्य सुभटान्, प्रेषयन् मुनिवेषिणः । तेऽपि तत्र गतास्तेषां, साधुचर्यामथादिशन् ॥४२२॥ अगच्छतामभिगमो-अनुयानं गच्छतामथ । क्रियते न: प्रणामश्च, भून्यस्तकरजानुकैः ॥४२३॥ अन्नं पानं च शय्या च, वस्त्रपात्रादि वस्तु च । द्विचत्वारिंशता दोषै-रुज्झितं नः प्रदीयते ॥४२४॥ पठ्यन्ते च नमस्कार-मन्त्रशक्रस्तवादयः । अर्हन्तस्त्रिः प्रपूज्यन्ते, जीवेषु क्रियते कृपा ॥४२५॥ एवं च संप्रतिर्भावी, सुप्रसन्नोऽन्यथा न तु । तेऽपि तत्तद् व्यधुः सर्वं, ततस्तोषयितुं नृपम् ॥४२६॥ सुभटा अप्यथागत्य, तद्वृत्तं भूभुजेऽभ्यधुः । गुरुन् विज्ञपयामास, ततः संप्रतिरन्यदा ॥४२७॥ प्रभो ! नानार्यदेशे किं, विहरन्ति सुसाधवः ? | गुरु: स्माह जनस्तत्रा-ज्ञानी नश्याद् व्रतं ततः ।।४२८।। राजा प्रोचे प्रभो ! तर्हि, तदाचारं परीक्षितुम् । न्ययोजयध्वं प्रथम, चरानिव तपोधनान् ॥४२९॥ ततो गुरुर्मुनीन् कांश्चिद् भूपतेरुपरोधतः । आदिदेश विहाराय, तेष्वैन्द्रद्रमिलादिषु ॥४३०॥ तानप्यालोक्य तेऽनार्या, विशिष्टानीव भूभुजः । वस्त्रानपानपात्राद्यै-स्तथैव प्रत्यलाभयन् ॥४३॥ तदीयश्रावकत्वेन, रञ्जितास्ते तपोधनाः। आगत्य