________________
स, श्राद्धधर्मं प्रपेदिवान् । तरीतुं भवपाथोधिं, सुश्वेतपटपोतवत् ॥३९८॥ अर्हति स्माऽर्हतामङ्क्रीन्, पूजयाऽष्टप्रकारया । उपास्ते स्म गुरून् व्याख्या-रसपानकलालसः ॥३९९॥ ददौ दानमनिर्विण्णः, सङ्घमार्चयदर्हताम् । प्रावर्तयच्च सर्वत्र, प्रतिबोध्य कृपां नृपः ॥४००॥ प्रतिग्रामं प्रतिपुरं, चैत्यैस्तत्कारितैस्तदा । बभूव भूमिः सर्वाङ्ग-मुक्तामयविभूषणा ॥४०१॥ अभूवनार्हताः सर्वे, तदा मिथ्यादृशोऽपि हि । यतो राजानुगो लोकः, स्फाति: पुण्यानुगा यथा ॥४०२॥ सुसाधुश्रावकेणाऽथ, प्रतिबोधयितुं तदा ॥ अपि प्रत्यन्तभूपाला, स्तेन सर्वेऽपि शब्दिताः ॥४०३॥ आयाताश्च स्वयं राज्ञा, धर्ममाख्याय विस्तरात् । तेऽपि प्रग्राह्य सम्यक्त्वं, श्रमणोपासकाः कृताः ॥४०४॥ तथैव तस्थुषां तेषां, विहृत्य समयान्तरे । महागिरिः सुहस्ती च, पुनस्तत्रेयतुर्गुरू ॥४१५।। चैत्ये यात्रा तदा चक्रे, उज्जयिन्या महाजनैः । अनन्तरं च प्रारेभे, रथयात्रामहोत्सवः ॥४०६॥ तदा संप्रतिसाम्राज्ये, जिनधर्मे महौजसि । विनिर्ययौ रथ: स्थानान्महिम्नाऽतिमहीयसा ॥४०७॥ पुष्पितारामवत् पुष्पैः, फलौघैः कल्पवृक्षवत् महादूष्यापण इव, परिधाननिकाशनैः ॥४०८॥ रणतूर्यायितैर्वाक्यै-महिं व्यामोहयन्निव । गृहे गृहेऽष्टपूजाद्यं, गृह्णानो माङ्गलिक्यवत् ॥४०९॥ सोल्लासरासकासक्त-ौणहल्लीसकः पुरः । परितः स्फारशृङ्गारै-र्गीयमानाङ्गनाजनैः ॥४१०॥ विलासिनीकरोत्क्षिप्तै,-विज्यमानश्च चामरैः । जंभारिकुञ्जर इव प्रेक्ष्यमाण: स्मितैनरैः ॥४११॥ इत्थं निरुपमोत्साहः, प्रीताखिलनरामरः । अगादुपनृपावासद्वारं जैनो महारथः ॥४१२॥ तत्राऽऽगत्य स्वयं राजा, समं सामन्तपार्थिवैः । तं पूर्णविधिनाऽभ्यर्च्य, पुष्पाण्यग्रे प्रकीर्य च, ॥४१३॥ महाप्रभावनां कुर्वं-स्तमनुव्रज्य संप्रतिः । तेषां राज्ञां विधिं सर्वं, दर्शयित्वाऽगमत् गृहान् ॥४१४॥ ततः स तान्नृपान् स्माह, न न: कार्यं धनेन वः । मन्यध्वे स्वामिनं चेन्मां, तद् भवन्तोत्र संप्रति ॥४१५|| धर्म
॥१४॥