________________
संप्रतिनृपतिचरित्रम् ॥
साधिताशेषक्षोणीचक्रस्य चक्रिवत् । उज्जयिन्यामुज्जयिन्यां, पुर्यामाजग्मुषोऽन्यदा ॥३८२॥ जीवितस्वामिप्रतिमा, नन्तुं संयमयात्रया । आजग्मतुः क्रमादायों, महागिरिसुहस्तिनौ ॥३८३॥ तदानीं चान्तरकारीन्, जिगीषोरिव निर्ययौ । स्वननिस्वानवद्वाद्यै-जर्जीवितस्वामिनो रथः ॥३८४ा महागिरिसुहस्तियां, सजेन च परिष्कृतः । पुर्यामस्खलित: स्वैर, भ्राम्यन् प्राकाम्यसिद्धवत् ॥३८५।। आजगाम नरेन्द्रस्य, सौधद्वारं महोत्सवैः । गवाक्षस्थ: क्षितीशोऽपि, प्रेक्षताऽऽर्यसुहस्तिनं ॥३८६॥ दध्यौ विलोक्य तं चैवं, काऽप्येनं दृष्टपूर्व्यहम् । परं दृष्टचरः कुत्रे-त्यामृशन् मूर्छयाऽपतत् ॥३८७॥ अथासन्नैः परिजनैः संसिक्तश्चन्दनादिभिः । वीजितस्तालवृन्ताद्यैः, स्मृतप्राम्जातिरुत्थितः ॥३८८॥ ततस्तदैव तं ज्ञात्वा, स प्राग्भवगुरुं सुधीः । गत्वा तत्रानमद्भक्त्या, पप्रच्छ च कृताञ्जलिः ॥३८९॥ किं फलं भगवनर्हद्धर्मकल्पमहीरुहः । अवोचस्ते फलं राज-लाभ: स्वर्गापवर्गयोः ॥३९०॥ पुनरूचे सं किं पूज्या, अव्यक्तव्रतजं फलम् । गुरवोऽप्यभ्यधुर्भूप, ! भूपतित्त्वादिकं फलम् ॥३९१॥ ततः प्रत्ययितो राजा-ऽवोचज्जानीत मां न वा । गुरुः श्रुतोपयोगेन, विज्ञाय नृपमभ्यधात् ॥३९२॥ सुष्ट्रपलक्षयामस्त्वां, शिष्यो नः प्राग्भवे भवान् । ततो हर्षप्रकर्षेण, वन्दित्वा सोऽवदद् गुरून् ॥३९३|| भवभ्रमपरिश्रान्त-जन्तुविश्रामपादप !। कारुण्यामृतजीमूत, श्रुतरत्नमहोदधे ! ॥३९॥ तदानीं यदि मे स्वामित्राकरिष्यत् कृपां भवान् । ततोऽहं क्षुत्पिपासाऽऽा-ऽगमिष्यं क्वापि दुर्गतौ ॥३९५॥ भक्त्पादप्रसादेन, साम्राज्यमिदमद्भुतम् । प्राप्तं स्वामिन् मयेदार्नी, यत्कर्त्तव्यं तदादिश ॥३९६॥ ततो गुरुभिराचक्षे, जैनधर्मफलं त्वया । साक्षाच्चक्रे स्वयं वत्स, तत्तत्रैवादरं कुरु ॥३९७।। ततः सम्यक्त्वमूलं