SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ कुणालः पुत्रजन्मना ॥३६७॥ ततो विमातुर्विफलं, करोम्येष मनोरथम् । गृह्णामि तन्निजं राज्यमिति ध्यात्वा तदैव सः ॥३६८॥ कुणालो निर्ययौ ग्रामात्, पाटलीपुत्रमासदत् ॥ अगायच्च तदा गोष्ठयां, राजमार्गसमीपगः ॥३६९॥ तस्यातिस्वरसौन्दर्य-रश्मिनेव नियन्त्रितः । तत्र यो यः संचचार, नि:प्रचारः स सोऽभवत् ॥३७०॥ रञ्जितस्तद्गुणैः सर्वः, शशंसैकमुखो जनः । हाहाहूहू प्रभृतिका-नमस्तास्यैव शिष्यकान् ॥३७॥ अभवत्तद्गुणोल्लापः, सभायां भूपतेरपि । आजूहवत्तं राजापि, कौतुकं कस्य नोऽद्भुते ॥३७२॥ सोऽप्यथागत्य राजाग्रे, जवन्यन्तरितो जगौ । राजानो येन पश्यन्ति, नाऽजिनो विकलामकान् ॥३७३॥ तस्याऽतिशायिना तेन, तुष्टो गीतेन गोपतिः । तमूचे भो वृणु वरं, सोऽपि गीत्यैव गीतवान् ॥३७४॥ प्रपौत्रश्चन्द्रगुप्तस्य, बिन्दुसारस्य नप्तकः । अशोकत्रीतनूजोऽन्धः, काकिणीमेष याचते ॥३७५॥ तच्छ्रुत्वाऽमुशताश्रूणि, जक्नीमपनीय ताम् । कुणालमङमारोप्य प्रोचेऽल्पं वत्स ! याचितम् ॥३७६॥ अथोचे मन्त्रिणा तत्र, नास्त्यल्पं देव ! याचितम् । राज्यं हि राजपुत्राणां, काकिणीत्यभिधीयते ॥३७७॥ राजोचे राज्यमस्यैव, संकल्पितमभून्मया । परं दैवमभूद्वामं, तत् कथं दीयतेऽस्य तत् ॥ ३७८॥ कुणाल: स्माह मत्पुत्र-स्तात ! राज्यं करिष्यति । राजाऽवोचत् कदाऽभूत्ते, पुत्र: स स्माह संप्रति ॥३७९॥ संप्रतीत्यभिधां तस्य, ततश्चक्रे तदैव राट् । दशाहोऽनन्तरं तं चाऽऽनाय्य राज्यं निजं ददौ ॥३८०॥ गत: क्रमात् परां प्रौढिं, भरतार्द्धमसाधयत् । अप्यनार्यान् जनपदान्, स्ववशीकुरुते स्म सः ॥३८१॥ संप्रते: ॥१३॥ १. कुणालः।
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy