________________
संप्रतिनृपतिचरित्रम् ॥
कस्य कृते स्वयम् । लेखं लिखति राजेन्दु-रेवमत्यन्तमादृतः ॥३५१।। ततस्तं वाचयित्वा सा, राज्यमिच्छु: स्वसूनवे । दत्वा बिन्दुमकारस्य तथैव तमतिष्ठिपत ॥३५२॥ अभ्येयुषा नरेन्द्रेण, कथञ्चिद् व्यग्रचेतसा । संवाऽप्रतिवाच्यैव, लेख: प्रैषि विमुद्रय च ॥३५३॥ कुमारोऽपि र समासाद्य, तं वाचयितुमार्पयत् । वाचयित्वा मनस्येव, स तु मौनेन तस्थिवान् ॥३५४॥ अथौच्यत कुमारण, किं न वाचयसि द्रुतम् । तथाप्यजल्पतस्तस्मात, स्वयमादाय वाचितः ॥३५५॥ अन्धीयतानः पुत्रोऽय-मित्यालोक्याऽऽह वाहकान् । मौर्यवंशभुवां राज्ञां, नाऽऽज्ञा केनापि खण्डयते ॥३५६॥ तल्लेखार्थ करिष्येऽहं, मन्त्रिणोऽथ तमभ्यधुः । कार्य देव ! पुनर्दृष्ट्वा, स ऊचे किं विमर्शनैः ॥३५७॥ इत्युक्त्वा सहसैवासौ, सुतप्ताय:शलाकया। भवितव्यतयैवोक्तः, स्वयमानञ्ज चक्षुषी ॥३५८॥ तच्चाकर्ण्य नृपः सद्यः, पतितो दुःखसागरे । चिन्तयामास धिगहो, दुर्गम दैववल्गितम् ॥३५९॥ अन्यथा चिन्त्यते हर्षो-च्छालमूर्खालमानसैः । जायते चाऽन्यथा सैष, कार्यारम्भो विधेर्वशात् ॥३६०॥ यदेव कुरुते दैवं, तदेव भवति ध्रुवम् । इदं करिष्यते नेद-मिति चिन्ता वृथा नृणाम् ॥३६१॥ ततस्तस्य ददौ । ग्राम, राज्यमन्धो हि नाऽर्हति । दत्तमुज्जयिनीराज्यं, तद्विमातृसुतस्य तत् ॥३६२॥ पारंपर्येण च ज्ञात्वा, तद्विमातृविजृम्भितम् । कुणालो हृदये दायान् दत्ते घृष्टः करोति किम् ॥३६३॥ अथ तत्र स्थितो ग्रामे, नि:कर्माऽल्पपरिच्छदः । गतिप्रसक्त्या देवस्य, दिवसानस्ति पूरयन् ॥३६४॥ अत्राऽन्तरे स रकात्मा, तावद्धर्मप्रभावतः । गर्भ कुणालभार्यायाः, समुत्पेदे स्फुरच्छ्यिः ॥३६५॥ मासद्वये व्यतिक्रान्ते, देवगुर्वादिपूजने । अभवद्दोहदस्तस्याः, कुणालेन च पूरितः ॥३६६॥ तनयं जनयामास, पूर्णेष्वथ दिनेषु सा । वर्द्धित: प्रियदास्या च, १ दवरिकया।