SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ +S + + संप्रतिनृपतिचरित्रम् ॥ सुमना-स्तावदर्हद्वचः स्मर ॥३१८॥ एक उत्पद्यते जीवो, म्रियतेऽप्येक एव हि । संसारऽपि भ्रमत्येकः, प्राप्नोत्येकश्च निर्वृतिम् ॥३१९॥ ज्ञानश्रद्धानचारित्राण्येवाहं श्रद्दधेऽधुना । यावज्जीवमितः सर्वे, व्युत्सृष्टा भवदोहदा: ॥३२०|| मया हिंसामृषावाद-स्तेयाब्रह्मपरिग्रहाः । चतुर्विधोऽपि चाहारः, प्रत्याख्यातस्त्रिधाऽधुना ॥३२१॥ क्षमयामि सर्वजीवान्, सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वजीवेषु, 3 मम न केनचित् ॥३२२॥ यान्मे जानन्ति सर्वज्ञा, अपराधाननेकधा । आलोचयामि सर्वांस्तान, साक्षीकृत्यार्हतादिकान् ॥३२३॥ छदस्थो मूढचित्तो य-जीव: स्मरति वा न वा। मत्यक्षात्तत्र सर्वत्रे-दानी मिथ्याऽस्तु दुष्कृतम् ॥३२वा एवं स्वदुष्कृतं निन्दन् सुकृतं चानुमोदयम् । सिद्धसोपानदेशीयं, चतुःशरणमाश्रितः॥३२५॥ सिद्धसाक्षिकमालोच्य, स्मरन् पञ्चनमस्कृतिम्।प्रतलीकृतदुष्कर्मा, चाणिक्य:स्वर्गमीयिवान् ॥३२६॥ सुबन्धुना नृपोऽन्येधु-य॑ज्ञप्यत यथा मम । देव प्रसीद चाणिक्य-वेश्मदानानृपोऽप्यदात् ॥३२७॥ गत: सुबन्धुस्तत्राथ, सर्वशून्ये गृहेऽखिले । एकमेवाऽपवरकं, पिहितिद्वारमैक्षत ॥३२८॥ भविष्यत्यत्र सर्वस्व-मित्यसौ चिन्तयंस्ततः । द्वारमुद्घाटयामास, मजूषामथ दृष्टवान् ॥३२९॥ अरेऽस्यां साररत्नानि, भविष्यन्तीति चिन्तया । भित्त्वा तालकमुद्घाट्या-पश्यन्धसमुद्गकम् ॥३३०॥ हुं जाने बीजकान्यत्र, भावीनीति विभावयन् । तमप्युद्घाट्य पश्यन्न-पश्यद्न्धान् सपत्रकान् ॥३३॥ ततोऽतिसुरभीन् गन्यां-स्तमाघ्रायाऽथ पत्रकम् । वाचयन् ददृशे तत्र, गन्धाघ्राणोत्तरां क्रियाम् ॥३३२॥ एतानाघ्राय यो गन्धान् । जलं पिबति शीतलम् । भुंक्ते सर्वरसं भोज्य-मधः कृतसुधं सुधीः ॥३३।। कर्पूरकुसुमादीनां, गन्धं सुरभि जिघ्रति । निरूपयति रूपाणि, मनोहारीणि सस्पृहः ॥३३॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy