________________
+S
+
+
संप्रतिनृपतिचरित्रम् ॥
सुमना-स्तावदर्हद्वचः स्मर ॥३१८॥ एक उत्पद्यते जीवो, म्रियतेऽप्येक एव हि । संसारऽपि भ्रमत्येकः, प्राप्नोत्येकश्च निर्वृतिम् ॥३१९॥ ज्ञानश्रद्धानचारित्राण्येवाहं श्रद्दधेऽधुना । यावज्जीवमितः सर्वे, व्युत्सृष्टा भवदोहदा: ॥३२०|| मया हिंसामृषावाद-स्तेयाब्रह्मपरिग्रहाः । चतुर्विधोऽपि चाहारः, प्रत्याख्यातस्त्रिधाऽधुना ॥३२१॥ क्षमयामि सर्वजीवान्, सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वजीवेषु, 3 मम न केनचित् ॥३२२॥ यान्मे जानन्ति सर्वज्ञा, अपराधाननेकधा । आलोचयामि सर्वांस्तान, साक्षीकृत्यार्हतादिकान् ॥३२३॥ छदस्थो मूढचित्तो य-जीव: स्मरति वा न वा। मत्यक्षात्तत्र सर्वत्रे-दानी मिथ्याऽस्तु दुष्कृतम् ॥३२वा एवं स्वदुष्कृतं निन्दन् सुकृतं चानुमोदयम् । सिद्धसोपानदेशीयं, चतुःशरणमाश्रितः॥३२५॥ सिद्धसाक्षिकमालोच्य, स्मरन् पञ्चनमस्कृतिम्।प्रतलीकृतदुष्कर्मा, चाणिक्य:स्वर्गमीयिवान् ॥३२६॥ सुबन्धुना नृपोऽन्येधु-य॑ज्ञप्यत यथा मम । देव प्रसीद चाणिक्य-वेश्मदानानृपोऽप्यदात् ॥३२७॥ गत: सुबन्धुस्तत्राथ, सर्वशून्ये गृहेऽखिले । एकमेवाऽपवरकं, पिहितिद्वारमैक्षत ॥३२८॥ भविष्यत्यत्र सर्वस्व-मित्यसौ चिन्तयंस्ततः । द्वारमुद्घाटयामास, मजूषामथ दृष्टवान् ॥३२९॥ अरेऽस्यां साररत्नानि, भविष्यन्तीति चिन्तया । भित्त्वा तालकमुद्घाट्या-पश्यन्धसमुद्गकम् ॥३३०॥ हुं जाने बीजकान्यत्र, भावीनीति विभावयन् । तमप्युद्घाट्य पश्यन्न-पश्यद्न्धान् सपत्रकान् ॥३३॥ ततोऽतिसुरभीन् गन्यां-स्तमाघ्रायाऽथ पत्रकम् । वाचयन् ददृशे तत्र, गन्धाघ्राणोत्तरां क्रियाम् ॥३३२॥ एतानाघ्राय यो गन्धान् । जलं पिबति शीतलम् । भुंक्ते सर्वरसं भोज्य-मधः कृतसुधं सुधीः ॥३३।। कर्पूरकुसुमादीनां, गन्धं सुरभि जिघ्रति । निरूपयति रूपाणि, मनोहारीणि सस्पृहः ॥३३॥