________________
संप्रतिनृपतिचरित्रम् ॥
उपचारवचोभिश्च, सदाप्युल्लापयन्त्यपि । किं बहूक्तेन राज्ञीवत्, सर्वेऽप्याराधयन्ति ताः ॥५४॥ कार्यते कर्म दासीव, चाणिक्यस्य पुन: प्रिया । दरिद्रदयितेत्याप, सत्कृतिं न कुतोऽपि सा ॥५५॥ विवाहानन्तरं ताश्च, दिव्यचीनांशुकादिभिः। सत्कृत्य सपरीवारा:, प्रेष्यन्ते स्म सगौरवम ॥५६॥ दत्त्वा चाणिक्यपत्न्यै च, वाससी गोणिविभ्रमे । गच्छेर्वत्सेऽध्वगैः सार्द्ध-मित्युक्त्वा प्रेषिता गृहात् ॥५७॥ ततः साऽचिन्तयद्धिग्धिगु, दारिद्रयमपमानदम् । यत्र मातापितृभ्योऽपि, भवत्येवं पराभवः ॥५८॥ पराभवमिवोज्झंती, दाभ्यामश्रमिषात्ततः । आजगाम गृहं पत्यु-नवाम्बुदसमानना ॥५९॥ प्रिय: पप्रच्छ किं खिन्ने-वागताऽपि पितु-नहात् । नोचे किञ्चित् पुनर्बादं, पृष्टाऽऽख्यत्तं पराभवम् ॥६०॥ तच्छ्रुत्वा सोऽपि सङ्कान्त-तत्खेदवदचिन्तयत् । अर्थ एव हि गौरव्यो, न कौलिन्यं न वा गुणाः ॥६॥ कलावानपि राजाऽपि, न भाति क्षीणवैभवः । कुबेरोऽप्यकुलीनोऽपि, श्लाध्यते धनवान् पुनः ॥६२॥ वित्ताढ्य एव सर्वत्र, प्रतिष्ठां लभते जने । काञ्चनश्रियमाबिभ्र-न्मेरुः क्षितिभृतां धुरि ॥६३॥ सत्यां भवन्त्यसन्तोऽपि, यान्त्यां सन्तोऽपि यान्ति च । यया सार्द्ध गुणाः सर्वे, सा श्रीरकैव नन्दतु ॥६४॥ अर्थश्चिन्तामणिरिव, चिन्तितार्थप्रसाधकः । तन्मयाऽप्यर्जनीयोऽसौ, तदेकमनसाऽधुना ॥६४॥ श्रुतश्च पाटलीपुत्रे, नन्दो विप्रसुवर्णदः । ततस्तं मार्गयामीति ध्यात्त्वा तत्राशु सोऽगमत् ॥६६॥ प्राविक्षच्च नृपावासं, दैवात् केनाप्यवारितः । आक्रम्य राजवद्राज-सिंहासनमुपाविशत् ॥६७॥ इत: स्नातविलिप्ताङ्गः,