SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ॥३९॥ कृत्वा जन्मोत्सवं तस्य, द्वादशे दिवसे ततः । चक्रे चाणिक्य इत्याख्या-मुत्सवेन महीयसा ॥४०॥ ततश्चणी तनूजं तं वन्दयित्वा गुरोः क्रमान् । दाढावृत्तान्तमाचख्यौ, पृच्छति स्म च तत्फलम् ॥४९॥ गुरवोऽतीन्द्रियज्ञान-समक्षसमयत्रयाः । आख्यन्नेष महाराजो, भविष्यति महामतिः ॥४२॥ अथ सोन्तर्गहं गत्वा. दध्यौ सनर्ममापि किम् । कृत्वाऽनर्थावहं राज्यं, गमिष्यत्यधमां गतिम् ॥४३|| ततः प्रघृष्य तद्दाढा-श्चणी वालकरश्मिना (?) । गुरोरावेदयामास, स्वरूपं तद्यथाकृतम् ॥४४॥ गुरुः प्रोवाच तं भद्र, किमिदं विदधे त्वया । यद्यथोपार्जितं येन, भोक्तव्यं तेन तत्तथा ॥४५॥ त्वया यद्यप्यघृष्यन्त, दाढाः सूनुस्तथाप्यसौ । बिम्बं किञ्चिद्विधायैव, राज्यं प्राज्यं करिष्यति ॥४६॥ अथ प्रवर्द्धमानः स, चाणिक्यस्त्यक्तशैशवः । विद्याः सर्वास्तदाचार्या-ल्लभ्यं धनमिवाददे ॥४७॥ अथानुरूपां पुत्रस्य, मृगाङ्कस्येव रोहिणीम् । विलोक्य ब्राह्मणीमेकां, चणी तं पर्यणाययत् ॥४८॥ ततः पितरि कालेन, क्रमात् कवलितेऽपि हि । सुधीवितृष्ण एवाऽस्था-द्वर्षास्विव सदैव सः ॥४९॥ अन्यदा दयिता तस्य, भ्रातुः परिणयोत्सवे । ययौ पितृगृहं तस्या, जाम्योऽन्या अपि चाऽऽगमन् ॥५०॥ तासां महेभ्यकान्ताना-मीयुषीणां महाश्रिया । मातापित्रादयः सर्वे, कुर्वंत्यत्यन्तगौरवम् ॥५१॥ काचिदभ्यङ्गयन्त्यङ्ग-मुद्वर्त्तयति चापरा । काऽपि स्नपयति स्नेहा-द्विलेपयति काऽपि च ॥५२॥ काऽपि संस्कुरुते पादौ, काऽप्याबध्नात्यलङ्कृतीः । वीणयन्ति च ता: काश्चिदुपात्तैर्हस्तशाटकैः ॥५३॥ १. भगिन्यः । ॥ २ ॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy