SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ SHESAR संप्रतिनृपतिचरित्रम् ॥ ददुः ॥२५॥ महान् प्रवचनाधारो, नूनमेष भविष्यति । इति तेन परिज्ञाय, गुरवस्तं बभाषिरे ॥२६॥ व्रतं गृह्णासि चेद्र ! ततो दास्तवेप्सितम् । स उवाच प्रभोऽस्त्वेवं, क: कल्याणं न वाञ्छति ॥२७॥ ततस्तदैव दीक्षित्वा, भोजनायोपवेशितः । भुक्तवानाकटीकण्ठ-माहारांस्तांस्तथाविधान् ॥२८॥ वातसंभृतभस्त्रेव, ततश्चास्फुरितोदरः । क्षणं शेते स्म मध्याह्ने, श्राद्धभुक्त इव द्विजः ॥२९॥ अतिस्निग्धेऽतिमात्रे च, तबाजीर्यत्यथाशने । शूलाया॑ऽश्व इवावेल्ल-ज्जातगूढविसूचिकः ॥३०॥ ततो गुरुर्बभाषे तं, किं किञ्चिद्वत्स ! भोक्ष्यसे ? । सोऽवदत् किं प्रभो स्यात् क्षुत्, ‘कल्पद्रोरपि सन्निधौ ॥३१॥ सांप्रतं किन्त्विदं याचे, स्यातां चेत्त्वत्पदौ गति: । इति जल्पन्ननल्पार्तिः, प्रक्षीणायुर्व्यपद्यत ॥३२॥ सामायिकस्याऽव्यक्तस्य, प्रभावादुदपद्यत । रङ्कः सैष सुतो यस्य, सोऽन्वयस्तस्य कथ्यते ॥३३॥ इहाऽस्ति प्रथमद्वीपे, भरतक्षेत्रभूषणम् । फुल्लनि:प्रतिमल्लश्री-र्गोल्लदेश: सुखैकभूः ॥३४॥ ग्रामोऽस्ति चणकग्राम-नामकस्तत्र विश्रुत: । बहुधान्यमनोहारी, गोरसाढ्यः सुकाव्यवत् ॥३५॥ चणीति ब्राह्मणस्तत्र, सच्चरित्रः पवित्रधीः । अर्हद्धर्मविशुद्धात्मा, श्रद्धालुः श्रावकोत्तमः ॥३६॥ प्राप्तोत्कर्षाणि हृद्ग्रामे, विद्यास्थानानि नित्यशः । चतुर्दशापि निर्बाधं, यस्यावात्सुः कुटुम्बवत् ॥३७॥ आगुस्तत्रान्यदाऽऽचार्याः, श्रुतसागरसूरयः । तद्गृहोपरिभूम्यां च, नृपास्थान्यामिव स्थिताः ॥३८॥ तदा च तत्र तत्कान्ता-ऽसूत सूनुं चणेश्वरी । प्ररूढदाढं प्रागेव, प्राचीवार्क स्फुरत्प्रभम् १. दाढायुक्तम् ।
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy