SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ तस्थतुः पृथगायौ ॥११॥ तदा च वर्त्तते कालः, कालवद्भैक्ष्यभोजिनाम् । स्वप्नेऽपि दृश्यते यत्र, नाऽन्नलेशोऽपि तैः क्वचित् ॥१२॥ साधुसङ्घाटकस्तत्र, भिक्षाहेतोः सुहस्तिनः । प्रविवेश धनाढ्यस्य, धनसार्थपतेर्गृहम् ॥ १३॥ अभ्युत्तस्थौ मुनी दृष्ट्वा, सहसा, रभसाद्धनः । उदञ्चदुच्चरोमाञ्चः, प्राणंसीच्चातिभक्तितः ||१४|| अथाऽऽदिशत् प्रियां सिंह- केसरादिकमद्भुतम् । आनयाऽऽहारसंभारं, येनैतौ प्रतिलाभये ॥ १५ ॥ तयाऽपि सर्वमानिन्ये, लब्धकल्पद्रुमादिव । अनिच्छद्भ्यामपि बलात्, तत्ताभ्यां सर्वमप्यदात् ॥१६॥ रङ्कः कश्चित्तदा तत्र, भिक्षार्थं तद्गृहाऽऽगतः । तद्दानग्रहणं दृष्ट्वा, चिन्तयामास विस्मितः ||१७|| अहो धन्याः कृतार्थाश्च, जगत्यत्रैत एव हि । देवतामिव यानेवं, नमन्त्येवंविधा अपि ॥१८॥ नूनं भिक्षुकताऽप्येषां स्वर्गादप्यधिकायते । यदेवं प्रतिलाभ्यन्ते, खण्डखाद्यैः सुधातिगैः ॥ १९ ॥ दैन्यं प्रकाशयन्तोऽपि नारका इव मादृशाः । नान्नलेशमपि क्वापि, लभन्ते तु कुतोऽपि हि ||२०|| दैन्यातिरेकाद्दत्ते चेत्, कोऽपि किञ्चित् कथञ्चन । तदप्युन्मिश्रमाक्रोशैः, कालकूटकणायितैः ||२१|| साधुलब्धी ततः साधू, एतावेवाहमर्थये । दद्यातां यद्यम् किञ्चित्, कारुण्यात् करुणाधनौ ||२२|| विमृश्यैवं ययाचेऽसौ, साधू तावप्यवोचताम् । भद्राऽऽवामस्य वाहीका वेव स्वामी गुरुः पुनः ||२३|| सोऽन्वगात् तौ ततोऽन्नार्थी, भक्तितोऽनुव्रजन्निव । दृष्ट्वाश्रयस्थितांश्चाऽग्रे, याचते स्म गुरूनपि ॥२४॥ गुरुराख्यायि साधूभ्या - मावामप्यमुनाऽर्थितौ । श्रुतोपयोगं गुरव - स्ततस्तद्विषयं १. प्रणतवान् । ॥ १ ॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy