________________
॥ श्री प्रेम-भुवनभानु-पद्य सद्गुरुभ्यो नमः ॥ ॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
संप्रतिनृपतिचरित्रम् ॥
आसीदिहावसर्पिण्यां, चतुर्विंशो जिनेश्वरः । आत्तलोकातिगैश्वर्यः, श्रीवीरस्त्रिजगत्प्रभुः ॥१॥ स्वामिना च सुधर्माख्यः, पञ्चमो गणभृद्वरः । भविष्यत्येष सन्तानी-त्यध्यास्यत निजे पदे ॥२॥ शिष्यस्तस्याभवजम्बू-र्जाम्बूनदसमप्रभः । नादाल्लोभादिवान्यस्य, E केवलश्रियमाप्य यः ॥३॥ अजायत विनेयस्तत्-प्रभवः प्रभवः प्रभुः । व्रतेऽप्यभून्मनोहारी, नृणां शैली हि दुस्त्यजा ॥४॥
अन्तेवासी स तस्यासीद्, भट्टः शय्यंभवः पुनः । आतीर्थस्थायि यश्चक्रे, दशवैकालिकश्रुतम् ॥५॥ यशोभद्रो यशोभद्रः, PE सूरिस्तस्मादजायत । पुनस्ततोऽपि संभूतः, सम्भूत इति विश्रुतः ॥६॥ भद्रबाहुर्भद्रबाहु-मुख्योऽभूगणभृत्ततः । निर्युक्तयः कृता
येन, श्रुतसप्रदीपिकाः ॥७॥ युगप्रधानतां भेजे, स्थूलभद्रस्ततः परम् । यस्तृणीकृतकन्दर्पः, पश्चिमः श्रुतकेवली ॥८॥ शिष्यौ बभूवतुस्तस्य महागिरिसुहस्तिनौ । निरस्ताऽशेषतमसौ, सूर्याचन्द्रमसाविव ॥९॥ पृथक् पृथगणं दत्त्वा, गुरुणा स्थापितावपि । गाढस्नेहौ सतीर्थ्यत्वा-दभूतां सहचारिणौ ॥१०॥ अन्यदा तौ विहारेण, कौशाम्बी जग्मतुः पुरीम् । पुष्कलैकाश्रयालाभात्, १. सुवर्ण । २. धर्मं यावत् । ३. तमः- पापं, पक्षे-तमोऽन्धकारः, । ४. विस्तीर्ण ।