________________
योषितमेवमेष । व्यचिंतयच्चेतसि नूनमल्पात् ॥ मृत्योर्विमुक्तः किल बालकोऽयं । रूपेण माभूत्पुनरीदृशं मे ॥ ८५ ॥ मया न गंतव्यमतो नगर्यादिषु स्वभिक्षादिकृते कदापि ॥ स्थेयं गिरावत्र च काष्ठहारादिभ्योऽशनं ग्राह्यमिहैव काले ॥८६॥ अभिग्रहं घोरमिमं गृहीत्वा स्थातुंगिकाद्रौ स मुनिर्विधिज्ञः ॥ रत्नत्रयाराधनंसावधान-स्तिस्त्र: सुगुप्ती समितीश्च रक्षन् ॥८७॥ स पक्षमासादिषु काष्ठहारा-दिभिः प्रदत्तं सलिलाशनादि ॥ अथैषणाशुद्धमलान्मुनीशः । शमांबुधिर्मोक्षसुखाभिलाषी ॥८८॥ काष्ठादिहारेण जनेन तेन । स्वभूपतीनां कथितं पुरस्तात् ॥ अस्मिन्महीभृच्छिखरे तपस्वी । तपोऽतिघोरं कुरुतेऽथ कोऽपि ॥८९॥ क्षुब्धास्ततस्ते क्षितिपाः समग्रा । व्यचिंतयन्नेष तपोऽतिघोरं ॥ करोति राज्यग्रहणाय नो हि । ततो वधार्हः खलु सांप्रतं च ॥ ९० ॥ सन्नह्यसर्वेऽप्यथ ते निहंतु मुपागताः श्रीबलदेवसाधुं ॥ धिग्धिग् महामोहजुषां नराणा-मस्थान एवेदृशयुद्धकर्म ॥९९॥ सिद्धार्थदेवः स बलर्षिपार्श्वे । प्रभुतया सन्निहितः स्वभक्त्या ॥ पुच्छछटाकंपितभूमिभागान् । सिंहान् विचक्रे विकरालमूर्तीन् ॥९२॥ तैर्भापितास्ते क्षितिपाः समग्रा । बलर्षिमानम्य ययुः पदं स्वं ॥ यतः प्रभावस्तपतोऽतितीव्रं । तपो मुनेर्हि वरिवर्त्यचिंत्यः ॥९३॥ स्वाध्यायमेतस्य मुनीश्वरस्य । संश्रूयमाणा मधुरस्वरं च ॥ परस्परं वैरविमुक्तचित्ता । व्याघ्रादिजीवाः शमिनो बभूवुः ॥९४॥ प्राग्जन्ममित्रं लघुकर्मकः श्री - बलस्य साधोः किल तेष्वधिकः ॥ संजातजातिस्मरणो विशुद्ध-श्रद्धागुणः कोऽपि मृगो बभूव ॥९५॥ मुनौ स्थिते तिष्ठति सन्निषण्णे । तथा निषीदेदिह याति याति ॥ मुमोच पार्श्वं न कदापि तस्य । मुनेर्मृगः शुद्धतराशयोऽसौ ॥ ९६ ॥ विवेकतोऽसौ हरिणः स्वयं मुनेरभिग्रहं घोरममुं विवेद च ॥ सार्थादियोगे सति साधुरेषको ।
॥ ८॥