________________
बलभद्र
चरित्रं ॥
मोहेन सिद्धार्थमवेहि मां भोः ॥७२॥ यत्कारितोऽहं भवतेति संघां । पश्यामि वा चेन्निजपाणिनाहं । दुष्टाशयं तं संबोधयेस्त्वं समये समेत्य ॥ त्यक्त्वा ततः स्वर्गसुखं भवंतं । बोध्धुं समागादिह रुक्मिघातिन् ॥७३॥ श्रृणु त्वयि श्रीयदुवंशसारे । दूरं गते नीरकृते तदैव ॥ न्यग्रोधमूले हरिराशु सुप्तो निद्रामनल्पां प्रगतस्तदानीं ॥७४॥ अरण्यसंचारिजराकुमार- शरेण विद्धः पदपद्मदेशे ॥ हरिस्ततः पांडवराजधान्यां । सकौस्तुभं प्रैषयदेनमाशु ॥७५॥ पूर्वं शुभध्यानपरः स पश्चादतीवरौद्राध्यवसायवान् सन् || निकाचितात्प्राच्यकुकर्मणो हि । जनार्दनोऽगान्नरकं तृतीयं ॥७६॥ बलेऽवदद्बांधव साधु साधु । प्रबोधितोऽहं भवतास्मि काले ॥ भ्रातस्त्वमेवावसरोचितं मे । यत्स्यात्तदेवाशु वदोपकारिन् ॥७७॥ जजल्प देवः सुकृतिन्नरिष्टनेमेः समीपे हि गृहाण दीक्षां ॥ कृष्णांगसंस्कारमथो विवेकी । बलो व्यधाच्चंदनदारुभिर्द्राग् ॥७८॥ प्रैषीन्मुनिं चारणमत्र नेमि र्बलस्य दीक्षावसरं विमत्य ॥ तदंतिके स्नेहभरं विमुच्य । शोकं ललौ तत्र बलस्तपस्यां ॥७९॥ स्वधाम सिद्धार्थसुरे गतेऽस्मिन् । श्रीमद्बलर्षिर्विहरन् जगाम ॥ महीधरे तुंगिकनामधेये । तेपे तपस्तत्र निरस्तको प ॥८०॥ सप्तसप्तमिकामादौ । प्रांते दशमिकामिति ॥ तपो विचित्रं कुर्वाणस्तत्रास्ति श्रमणोत्तमः ॥८१॥ मासस्य सोऽन्येद्युरनिंध्यपारणे । गिरेरदूरस्थमतोऽविशत्पुरं ॥ ददर्श काचिद्घनकूपकंठगा । योषिद्वलर्षिं सहितार्भकेन च ॥८२॥ तदीयरूपाहृतचित्तया तया । स्वपुत्रकंठे हि पदे घटस्य च ॥ रज्जुस्तदाबद्ध्यत यावदर्भकं । क्षेतुं जले सारभते स्म तावता ॥८३॥ आलोक्य तं व्यतिकरं निजरूपलक्ष्मीं । निंदनुवाच बलसाधुरिति स्त्रियं तां ॥ हा हा करोषि किमकार्यमनार्यलोक-निंद्यं शुचां पदमनर्गलदुःखहेतुं ॥८४॥ विबोध्य तां
ठाठ साहस