________________
व्रत समाराध्य सुरोऽथ भूत्वा । सिद्धार्थनामा बलदेवबंधुः ॥ तदा ददर्शावधिवित्प्रयोगा-तां दुर्दशां श्रीहलिनः प्रकामं ॥६०॥ प्रागुक्तसंधापरिपालनार्थ । सिद्धार्थदेवः समगादिह द्राग्॥भृशं विमोहेन विमूढचित्तं।स्वं बांधवं बोधयितुं विवेकी॥६॥अध्वन्यरूपत्रिदशो बलेऽथ । प्रपश्यति क्ष्माधरतोवतीर्ण ॥ समप्रदेशे सहसैव भग्नं । स्वं खंडश: स्यंदनमात्मनैव ॥६शा संघातुमुच्चैर्यतते ततोऽथ । बलोऽवदत्तं विषमप्रदेशात् ॥ समप्रदेशे शकलीकृतो यः । संधास्यते मूढ कथं रथः सः ॥६॥ देवोऽवदन्मूढ यदा मृतोऽसौ । यत्नेन जीविष्यति तेऽथ बंधुः ॥ भग्नस्तदा स्यंदन एष नूनं । संघास्यते श्रीबलदेव जाने ॥६४॥ तद्वाक्यमाकर्ण्य विशेषदन-बचाल सीरी पुरत: क्षणेन ॥ आरोपयेत्पंकजिनीं शिलाग्रे । सत्कर्षकाकारधरः सुरः सः ॥६५॥ रामोप्यवग् सस्मितमेनमुच्चरारोहितेयं नलिनी कदा ते ॥ जगाद देवोऽपि शबं तवांस-गतं च जीविष्यति सा तदैव ॥६६॥ संप्रस्थितेये पुनरेव रामे । सुरोऽथ विकृत्य विदग्धमेकं ॥ महीरुहं सिंचति रौहिणेयः । पुनर्जगादेति सहासमेनं ॥६७॥ सिक्तः कदा पल्लवितानघाहो। विमूढ दग्धोऽपि महीरुहोऽयं ॥ सुरो बभाषे शबकं त्वदंस-स्थितं यदा भावि सजीवमेव ॥६८॥ श्रुत्वेति रामे चलिते पुरस्ता-गोपाकृतिः सोऽपि सुधाशनो द्राग् ॥ धेनोम॑तायाः क्षिपयेन्मुखांत-विनीलचारीकवलान् प्रयत्नात् ॥६९॥ प्रलंबभृत्वाह तृणानि किं ते । चरिष्यति क्षिप्रमहो मृतासौ ॥ लेखोऽप्यवादीत्कुणपं
किमेतत् । करिष्यति कार्यमहो विमूढ ||७०॥ एवं समोक्तीविनिशम्य दध्यौ । श्रीरौहिणेयः प्रतिबुद्धचित्तः ॥ बंधुर्मत: किं मम ननमित्थं नि ।वदंति सर्वेऽपि यतो जनास्तु ॥७९॥ एवं बले चिंतयति स्वचित्ते। सिद्धार्थदेवः कृतमुख्यरूपः॥ जगाद किं मुह्यसि रामबंधो। .
॥७॥