________________
बलभद्रचरित्रं ॥
Ra जानामि चेत्संप्रति तं स्वमातृ-पुत्रादिविध्वंसकरं विपक्षं ॥किल मारयामि ॥३६॥ प्रवर्धमानेद्दशागाढरौद्र-ध्यानो हरिः पूर्णनिजायुरेव ॥
मृत्वा तृतीये नरकेऽवतीर्णः । सुदुस्सहक्लेशपदे तदानीं ॥३७॥ भ्रांत्वाथ लब्धं जलमब्जिनीस-द्दलेषु संभृत्य वटे समागात् ॥ स्वबांधवं द्रष्टुमिहातिदूर-विस्फारिताक्षद्वितयः स रामः ॥३८॥ विकाशितछन्नमुखं प्रसुप्तं । दृष्ट्वा हरि बंधुरयं ममात्र । भृशं श्रमातः सुखशायितोऽस्ती-त्यूचं स्थित: शार्ङ्गधरो वटेऽभूत् ॥३९॥ भ्राता मदांगं न हि वालयेत्स्वं । मुखांबुजे भ्राम्यति मक्षिका च ॥ ततो हली शंकितमानसश्च । ह्यपाकरोत्तन्मुखतोंबरं द्राग् ॥४०॥ निश्चेष्टकायं मृतमेव बंधुं । दृष्ट्वा बलो मूर्छनमाप तूर्णं ॥ सुशीतवातैः पुनराप सद्य-श्चैतन्यमुच्चैर्विरहातुरात्मा ॥४१॥ विलोक्य बंधोश्चरणे प्रहारं । कोपाकुलोऽभूत्पुनरेव रामः ॥ क्ष्वेडां व्यधात् क्षोभितसत्वजातां ।। वनेचराकंपकरीं क्षणेन ॥४२॥ तारस्वरं प्राह पुनर्हलायुधः । सुखप्रसुप्तो मम बंधुराहतः ॥ दुरात्मना केन मुमूर्षुणा हहा । स जल्पतु क्षिप्रमथो पुरो मम ॥४३॥ बालं स्त्रियं मत्तममंदमूर्छा । सुप्तं सरोगं पुरुषं निरस्त्रं ॥ निहंति यः सर्वबलेन लोकै-निगद्यतेऽसौ ह्यधमो मनुष्यः ॥४॥ कोपेन शोकेन च विह्वलात्मा । बभ्राम चैतामटवीमनल्पां ॥ रामः परं घातकरं मनुष्यं । ददर्श नायं क्वचनापि तत्र ॥४५॥ ततो विलापान् बहुलान् विधाय । चिरं शुचाचांतमना हली सः ॥ स्कंधे निधायाच्युतकायमंत-र्वणं स बभ्राम पुनः सशोकः ॥५७॥ पुष्पैः फलैश्चार्थयति प्रकामं । शय्यातले शाययति स्वयं च ॥ तथा कदाचित् स्नपयेद्जलेन । शबं हल: श्लाघ्यगुणोऽपि विज्ञः ॥५८॥ एवं विचेष्टां विविधां वितन्वतः। षडेव मासा भ्रमतोऽगुरस्य च ॥ धृत्वांसदेशे मृतकं ददाह नो । महात्मनां मोहविडंबना हहा ॥५९॥